________________
स्थानं-२, - उद्देशकः-१
पुद्गलनिवृत्तमौदारिकं, केवलमेकेन्द्रियाणामस्थ्यादिविरहितं, वायूनां वैक्रियं यत्तन्न विवक्षितं, प्रायिकत्वात् तस्येति॥ ___ 'बेइंदियाण'मित्यादि, अस्थिमांसशोणितैर्बद्धं-नद्धं यत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः।
_ 'पं.दिए'त्यादि, पञ्चेन्द्रियतिर्यङ्गनुष्याणांपुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति॥
प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह-'विग्गहे'त्यादि, विग्रहगतिःवक्रगतिर्यदा विश्रणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वेशरीरे, इह तैजसकार्मणोयोर्भेदेन विवक्षेति, एवं दण्डकः॥शरीराधिकारात् शरीरोत्पत्तिंदण्डकेन निरूपयन्नाह-'नेरइयाण'मित्यादि, कण्ठ्यं, किन्तुयारागद्वेषजनितकर्मणा शरीरोत्पतिः सा रागद्वेषाभ्यामेवेतिव्यपदिश्यते, कार्यकारणोपचारादिति, 'जाववेमाणियाणं'ति दण्डकः सूचितः।
__ शरीराधिकाराच्छरीरनिर्वर्तनसूत्रं, तदप्येवं, नवरमुत्पत्तिः-आरम्भमात्रं निर्वर्तना तु निष्ठानयनमिति । शरीराधिकारच्छरीरवतां राशिद्वयेन प्ररूपणामाह-'दोकाए'त्यादि, सनामकर्मोदयात्त्रस्यन्तीतित्रसाः तेषांकायो-राशिस्त्रसकायः, स्थावरनामकर्मोदयातिष्ठन्तीत्येवंशीलाः स्थावरास्तेषांकायःस्थावरकायइति।त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थं 'तसकाये'त्यादि सूत्रद्वयं, सुगमंचेति।
पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह
मू. (७६) दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा निग्गंथीण वा पव्वावित्तएपाईणं चैव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्तए सज्झायंसमुद्दिसित्तएसज्झायमनुजाणित्तएआलोइत्तएपडिक्क मित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टत्तए आहारिहं पायच्छित्तं तवोकम्म पडिवजित्तए,
दो दिसातो आभिगिझ कप्पति निग्गंथाण वा निग्गंथीण वा अपच्छिममारणंतियसलेहणाजूसणाजूसियाणं भज्जपाणपडियाइक्खिताणं पाओवगताणं कालं अनवकंखमाणाणं विहरित्तए, तंजहा-पाईणं चेव उदीणं चेव ॥
वृ. 'दोदिसाओ'इत्यादि, द्वेदिशौ-काष्ठेअभिगृह्य-अङ्गीकृत्यतदभिमुखीभूयेत्यर्थः कल्पतेयुज्यते निर्गता ग्रन्थाद्धनादेरिति निर्ग्रन्थाः-साधवस्तेषां, निर्ग्रन्थ्यः-साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन ‘प्राचीनां' प्राची पूर्वामित्यर्थः 'उदीचीनाम्' उदीचीमुत्तरामित्यर्थः, उक्तंच॥१॥ “पुव्वामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेज्जा ।
जाए जिनादओ वा हवेज जिनचेइयाइं वा" (इति)॥ “एव'मिति यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुंशिरोलोचनेन १ शिक्षयितुंग्रहणशिक्षापेक्षयासूत्रार्थी ग्राहयितुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org