SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ स्थानाङ्ग सूत्रम् २/१/७४ त्वादिलक्षणः स चावसर्पिण्युत्सर्पिणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः अन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति । 'आगासे' त्ति सर्वद्रव्यस्वभावानाकाशयतिआदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम्, आङ् मर्यादाऽभिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशंलोकाकाशमिति, विपरीतमलोकाकाशमिति । अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्तं, लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाह मू. (७५) नेरइयाणं दो सरीरगा पं० तं०-अब्भंतरगे चैव बाहिरंगे चैव, अब्भंतरए कम्मए बाहिरए वेउव्विए, एवं देवागं भाणियव्वं, पुढविकाइयाणं दो सरीरगा पं० तं०-अब्भंतरगे चेव बाहिरगे चेव अब्भंतरगे कम्मए बाहिरगे ओरालियगे, जाव वणस्सइकाइयाणं, बेइंदियाणं दो सरीरा पं० तं०-अब्भतंरए चैव बाहिरए चेव, अब्भंतरगे कम्मए, अट्टिमंससोणितबद्धे बाहिरए ओरालिए, जाव चउरिदियाणं, पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पं० तं०-अब्भंतरगे चेव बाहिरगे चेव, अब्भंतरगे कम्मए, अट्टिमंससोणियण्हारुछिराबद्धे बाहिरए ओरालिए, मणुस्साणवि एवं चैव । विग्गहगइसमावन्नगाणं नेरइयाणं दो सरीरगा पं० तं०-तेयए चेव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणं दोहिं ठाणेहिं सरीररुप्पत्ती सिया, तं० रागेण चेव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्ठाणनिव्वतिए सरीरगे पं० तं० रागनिव्यत्तिए चैव, दोसनिव्वत्तिए चेव, जाव वेमाणियाणं, दो काया पं० तं०-तसकाए चेव थावरकाए चेव, तसकाए दुविहे पं० त०-भवसिद्धिए चेव अभवसिद्धिए चेव, एवं थावरकाएऽ वि वृ. ‘नेरइयाण’मित्यादि, प्रायः कण्ठयं, नवरं शीर्यते - अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः मध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन लोलीभवनात् भवान्तरगतावपि चजीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यं, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वानिरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरं 'कम्मए 'त्ति कार्मणशरीरनामकर्मोदयनिर्वत्यमशेषकर्मणां प्ररोहभूमिराधारभूतं, तथा संसार्यात्मनां गत्यन्तरसङक्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपं, कर्मैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यं, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, 'एवं देवाणं भाणियव्वं' ति अयमर्थो - यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम् असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मणवैक्रिययोरेव तेषां भावात्, चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति । 'पुढवी 'त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदार For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy