SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्थानं - २, - उद्देशक:- १ ६३ उच्यते यस्मात् प्रज्ञापनायामुक्तं 'आहारपञ्जत्तीए अपजत्तए णं भंते! जीवे किं आहारए अनाहारए ?, गोयमा ! नो आहारए अनाहारए "त्ति, स च विग्रहे आहारपर्याप्ता अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहारपर्याप्तऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा सिय आहारए सिय अनाहारए 'त्ति, यथा शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए' त्ति, शेषाः पुनरसङ्ख्यातसमया अन्तर्मुहूर्त्तेन निर्वत्यन्त इति, अपर्याप्तकास्तु उच्छासपर्यात्या अपर्याप्ता एव भ्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां यस्मादागामिभवायुष्कं बध्ध्वा म्रियन्ते तच्च शरीरेन्द्रियादिपर्याप्ता पर्याप्तैरेव बध्यत इति । 'एव' मिति पूर्ववदेवेति । 'दुविहा पुढवी' त्यादिषट्सूत्री, परिणताः-स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्गगन्धरसस्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु - 119 11 'जोयणसयं तु गंता अनहारेणं तु भंडसंकंती । वायागणिधूमेण य विद्धत्यं होइ लोणाइ हरियाल मनोसिल पिप्पली य खज्जूर मुद्दिया अभया । आइन्नमणाइन्ना तेऽवि हु एमेव नायव्वा आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा भूमाहारच्छेदे उवक्क मेणेव परिणामो "" 'अनहारेणं' ति स्वदेशजाहाराभावेनेति, 'भंडसंकती 'ति भाजनाद् भाजनान्तरसङ्क्रान्त्या, खर्जूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा'घट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । 'एव 'मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि द्रवन्ति-गच्छन्ति विचित्रपर्यायानिति द्रव्याणि जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि-विवक्षितपरिणामवन्त्येव, अपरिणतानीति द्रव्यसूत्रं षष्ठम् । 'दुविहे 'त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः- प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिर्गमनमात्रवमेव, शेषं तथैवेति ॥ ॥२॥ ॥३॥ 'दुविहा पुढवी' त्यादि षट्सूत्री, अनन्तरं सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढा:आश्रितास्त एवानन्तरावगाढकाः, येषां तु द्व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम् - अव्यवधानेनावगाढा अनन्तरावगाढा, इतरे तु परम्परावगाढा इति ।। अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्दिसूत्र्या प्ररूपणामाह मू. (७४) दुविहे काले पं० तं०-ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पं० तं०-लोगागासे चेव अलोगागासे चेव, वृ. तत्र कल्यते - सङ्ख्यायतेऽसावनेन वा कलनं वा कलासमूहो वेति कालः-वर्त्तनापरापर For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy