SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/७२ वीतरागसंयममाह - 'वीयरागे'त्यादि, उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संमयोवेति-एकादशगुणस्थानवर्तीति, क्षीणकषायोद्वादशगुणस्थानवर्तीति, उवसंते'त्यादि सूत्रद्वयंप्रागिव । 'खीणे'त्यादि,छादयत्यात्मस्वरूपंयत्तच्छद्म-ज्ञानावरणादिघातिकर्मतत्र तिष्ठतीति छद्मस्थः-अकेवली, शेषं तथैव, केवलम्-उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीतिछउमत्थे'त्यादि, स्वयम्बुद्धादिस्वरूपं प्रागिवेति, ‘सयंबुद्धे'त्यादि नव सूत्राणि गतार्थान्येवेति। उक्तः संयमः,सचजीवाजीवविषयइति पृथिव्यादिजीवस्वरूपमाह- 'दुविहापुढवी त्यादिरष्टाविंशतिः सूत्राणि ॥ मू. (७३) दुविहा पुढविकाइया पं० तं०-सुहुमा चेव बायरा चेव १, एवं जाव दुविहा वणस्सइकाइया पं० २०-सुहुमा चेव बायरा चेव ५, दुविहा पुढविकाइया पं० तं०-पज्जत्तगा चेव अपज्जत्तगा चेव ९, जाव वणस्सइकाइया १०, दुविहा पुढविकाइया पं० तं०- परिणया चेव अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५, दुविहा दव्वा पं० २०-परिणताचेवअपरिणता चेव १६, दुविहा पुढविकाइया पं०२०गतिसमावन्नगा चेव अगइसमावनगा चेव १७, एवं जाव वणस्सइकाइयचा २१, दुविहा दव्वा' पं०-२०-गतिसमावन्नगा चेव अगतिसमावनगा चेव २२, दुविहा पुढविकाइया पं० त०-अनंतरोगाढा चेव परंपरोगाढा चेव २३, जावदव्वा-२८ वृ.तत्र पृथिव्येवकायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येववाकायः-शरीरंसोऽस्तियेषांते पृथिवीकायिकास्तेसूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति, ‘एव'मिति पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह-'जावे त्यादि, 'दुविहे'त्यादिपञ्चसूत्री, तत्र पर्याप्तनामकर्मोदयवर्तिनः पर्याप्ताः, येहिचतमः स्वपर्याप्तीः पूरयन्तीति,अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीर्नपूरयन्तीति, इहचपर्याप्ति मशक्तिः सामर्थ्यविशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदा चेयं, तद्यथा॥१॥ आहार १ सरीरिं२ दिय ३ पजत्ती आनपान ४ भास ५ मणे ६ चत्तारिपंच छप्पिय एगिदियविगलसन्नीणं" (ति), तत्र एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः१,शरीरपर्याप्तिःसप्तधातुतया रसस्यपरिणमनशक्तिः२, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान्पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, ४ भाषापर्याप्तिर्वचोयोग्यान्पुद्गलान्गृहीत्वाभाषात्वेन परिणमय्यवाग्योगतया निसर्जनशक्तिः ५, मनःपर्याप्तिर्मनोयोग्यानपुद्गलान्गृहीत्वामनस्तयापरिणमय्यमनोयोगतया निसर्जनशक्तिरिति ६, एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वत्येन्ते, तयेषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदयेनानिवृत्ताः येषामेताः सन्तीति तेऽपर्याप्तका इति, एताश्च युगपदारभ्यन्तेऽन्तेर्मुहूर्तेन च निर्वत्यन्ते, तत्र आहारपर्याप्तेर्निवृत्तिकालः समय एव, कथम्?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy