________________
स्थानं - २, - उद्देशकः -२
६९
वृ. तत्र भव्यदण्डकः कण्ठ्यः, अनन्तरदण्डके 'अनंतर 'त्ति एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया त्वितरे इति २, गतिदण्डके गतिसमापन्नका - नरकं गच्छन्तंः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नारकत्वं प्राप्ता इतरे तु द्रव्यानारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेया इति ३, प्रथमसमयदण्डके 'पढमे' त्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति ५, उच्छ्वासदण्डके उच्छ्वसन्तीत्युच्छासकास्तत्यर्याप्ति पर्याप्तकाः, तदन्ये तु नोच्छ्वासकाः ६, इन्द्रियदण्डके सेन्द्रियाःइन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः ७, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति ८, संज्ञिदण्डके संज्ञिनो-मनः पर्याप्ता पर्याप्तकाः तथा अपर्याप्तकास्तु ये ते असंज्ञिन इति,
'एवं पंचिदिए 'त्यादि - अस्यायमर्थः यथा नारकाः संज्ञ्यसंज्ञिभेदेनोक्ताः एवं विगलेंदियवज्ज’त्ति, विकलानि अपरिपूर्णानि सङरव्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये चतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संज्ञ्यसंज्ञितया वाच्याः, दण्डकावसानमाह- 'जाव वेमाणिय'त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति, क्वचिद् 'जाव वाणवंतरियत्ति पाठस्तत्रायमर्थो येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषूत्पद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९,
भाषादण्डके भाषका-भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह- 'एव' मित्यादि १०, सम्यग् ष्टिदण्डके सम्यकत्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्- 'एगिंदियवज्जा सव्वे' त्ति ११, संसारदण्डके परीत्तसंसारिकाः-सङ्क्षिप्तभवा इतरे त्वितरे १२, स्थितिदण्डके कालः कृष्णोऽपि स्यात् समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमय; सङ्घयेयो वर्षप्रमाणतः स यस्यां सा सङ्घयेयकाल - समया सा स्थितिः - अवस्थानं येषां ते सङ्घयेयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्घयेभागादिस्थितयः, 'संखिज्जकालठिइय'त्ति क्वचित्पाठः, स च सुगम एवेति,
'एव' मिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि ?, नेत्याह-पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति ? -एकेन्द्रियविकलेन्द्रियवर्जाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्ख्यातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तराः व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितया एवेति १३, बोधिदण्डके बोधिः- जिनधर्म्मः (प्राप्ति) सा सुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि १४, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः - अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः, शुक्लत्वं च क्रियावादित्वेनेति, आह च- 'किरियावाई भव्वे नो अभव्वे सुक्क पक्खिए नो किण्हपक्खिए 'त्ति, शुक्लानां वा आस्तिकत्वेन विशुद्धानां पक्षो वर्गः शुक्लपक्षस्तत्र भवा; शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका इति १५, चरमदण्डके येषां स नारकादिभवश्चरम्ः पुनस्तेनैव नोत्पत्स्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org