________________
___ ५९
स्थानं-२, उद्देशकः -१ ॥१॥ 'सोऽवि हुखओवसमिओ किन्तु स एव उ खओवसमलाभो ।
तमि सइ होइऽवस्सं भण्णइ भवपच्चओ तो सो" ॥१॥ (यतः)- “उदयक्खयखओवसमोवसमावि अजंच कम्मुणो भणिया।
दव्वं खेत्तं कालं भवं च भावंच संपप्प"त्ति तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति।
'मनपज्जवे'त्यादि, ऋज्ची-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणी मतिर्विपुलमतिः-घटोऽनेन चिन्तितः सचसौवर्णः पाटलिपुत्रिकोऽद्यतनोमहानित्यायध्यवसायहेतुभूतामनोद्रव्यविज्ञप्तिरिति, ॥१॥ (आह च-) "रिजु सामन्नं तम्मत्तागिहिणी रिजुमती मनोनाणं ।
पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥२॥ विउलं वत्थुविसेसणमाणंतग्गाहिणी मती विउला ।
चिंतियमनुसरइ घडं पसंगओ पज्जयसएहिं" 'आभिनिबोहिए'इत्यादि, श्रुतं कर्मतापन्नं निश्रितम्-आश्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितं, यत्पूर्वमेव श्रुतकृ तोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वाश्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च॥१॥ "पुव्वं सुयपरिकम्मियमतिस्स जं संपयं सुपाईयं ।
सुयनिस्सियमियरं पुन अनिस्सियं मइचउक्कं ।" (ति) 'सुए' त्यादि, 'अत्थोग्गहे'त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानंदर्शनमिति यदुच्यतेइत्यर्थः,सचनैश्चयिकोयःससामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याधुल्लेखवान् स आन्तमॊहूर्त्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणांव्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, अथवा व्यञ्जनम्-इन्द्रियशब्दादिद्रव्यसम्बन्धः इति, आह च॥१॥ "वंजिज्जइ जेणऽत्यो घडोव्व दीवेण वंजणंतोतं ।
उवगरनिंदियसद्दादिपरिणयद्दव्वसंबंधो" त्ति, अयं च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्द्धा, नयनमनसोरप्राप्तर्थपरिच्छेदकत्वात्, इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात्, बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्मावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्तेतत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टं, यथाऽविग्रहपर्यन्तेतत एवार्थावग्रहग्राह्यावस्तुग्रहणादीहासद्मावात्अर्थावग्रहज्ञानमिति, आहच॥१॥ “अन्नाणं सो बहिराइणं व तक्कालमनुवलंभाओ।
नतदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं" (ति),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org