SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ५६८ ' स्थानाङ्ग सूत्रम् १०/-/९९६ तथाहापयतिपुरुषमिन्द्रियेष्विति-इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनीकरोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च॥१॥ “छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरजई य कामेसु, इंदिएसुय हायइ ॥" इति तथा प्रपञ्चते-व्यक्तीकरोति प्रपञ्चयति वा-विस्तारयति खेलकासादि या सा प्रपञ्चा प्रपञ्चयति वा-सयति आरोग्यादिति प्रपञ्चा, आह च॥१॥ “सत्तमिंचदंस पत्तो, आनुपुव्वीए जो नरो। निच्छूहइ चिक्कणं खलें, खासई य अभिक्खणं ॥” इति तथा प्राग्भारमीषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा, यतः॥१॥ “संकुचियवलीचम्मो, संपत्तो अट्ठमिं दसं। नारीणमणभिप्पेओ, जराए परिणामिओ।" इति, तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखं-आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम्॥१॥ "नवमी मुंमुही नाम, जं नरो दसमस्सिओ। जराधरे विनस्संते, जीवो वसइ अकामओ॥" इति तथा शाययति-स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम्॥१॥ “हीणभिन्नस्सरोदीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ वसई, संपत्तो दसमिंदसं॥" इति। अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह मू. (९९७) दसविधा तणवणस्सतिकातिता पं० २०-मूले कंदे जाव पुप्फे फले बीये। वृ. 'दसे'त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्यच बादरत्वेनतेन सूक्ष्माणां नदशविधत्वमिति, मूलं-जटा कन्दः-स्कन्धाधोवर्ती यावत्करणात् ‘खंधे'त्यादीनिपञ्च द्रष्टव्यानि, तत्र स्कन्धः-स्थुडमिति यत्प्रतीतंत्वक्-वल्कः शाला-शाखाप्रवालं-अङ्कुरः पत्रं-पर्णंपुष्पं-कुसुमं फलं-प्रतीतं बीजं-मिंजेति। __ मू. (९९८) सव्वतोविणं विजाहरसेढीओदसदसजोयणाइविक्खंभेणपन्नत्ता, सव्वतोवि णं अभिओगसेढीओ दस दस जोयणाइं विक्खंभेणं पं०। .. वृ. दशस्थानकाधिकार एव इदमपरमाह-सव्वे'त्यादि सूत्रद्वयं, सर्वाः-सर्वदीर्घवैताढ्यसम्भवाः विद्याधरश्रेणयः-विद्याधरनगरश्रेणयः, दीर्घवैताढ्या हि पञ्चविंशतिर्योजनान्युच्चैस्त्वेन पश्चाशच्च मूलविष्कम्भेण, तत्रदशयोजनानिधरणीतलादतिक्रम्य दशयोजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणय भवन्ति, तत्र दक्षिणतः पञ्चाशनगराणि, उत्तरतस्तुषष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषुतुपञ्चपञ्चाशत्पञ्चपञ्चाशदिति।तथा विद्याधरश्रेणीनामुपरिदशयोजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः-आज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy