________________
स्थानं - १०, -
वृ. प्रतिमाभ्यासः संसारक्षयार्थं संसारिभिः क्रियत इति संसारिणो जीवान् जीवाधिकारात् सर्वजीवांश्च 'दसे' त्यादिना सूत्रत्रयेणाह, तच्च सुगमं, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्तितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आहच- 'एवं जावे'त्यादि, 'अणिंदिय'त्ति अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति संसारिपर्यायविशेषप्रतिपादनायैवाह
मू. (९९५) वाससताउस्स णं पुरिसस्स दस दसाओ पं० (तं०) -
वृ. 'वासे' त्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्कः, मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात् न चैवं तत उपचार एव युक्त इति ।
मू. (९९६) बाला १ किड्डा २ य मंदा ३ य, बला ४ पन्ना ५ य हायणी ६ । पवंचा ७ पदभारा ८ य, मुंमुही ९ सावणी १० तथा ॥
वृ. ‘दशे’ति संख्या, ‘दसाउ’त्ति वर्षदशकप्रमाणाः कालकृता अवस्थाः इह च वर्षशतायुर्ग्रहणं विशिष्टतरदशस्थानकानुरोधात् विशिष्टतरत्वं च
दशस्थानकस्यैवं वर्षदशकप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्मधर्म्मिणोरभेदाद्बाला, स्वरूपं चास्याः
119 11
119 11
'जायमेत्तस्स जंतुस्स, जा सा पढभिया दसा । न तत्त सुहदुक्खाई, बहुं जाणंति बालया ॥” इति, - तथा क्रीडाप्रधाना दशा क्रीडा, उक्तं च“बिइयं च दसं पत्तो, नाणाकीडाहिं कीडइ । न तत्थ कामभोगेहिं, तिव्वा उप्पज्जए मई ।"
५६७
119 11
46
तथा मन्दो - विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां . उक्तं च
सा मन्दा,
“तइयं च दसं पत्तो, आनुपुव्वीए जो नरो ।
समत्थो भुंजिउं भोए, जइ से अत्थि घरे धुवा ॥” इति,
भोगोपार्जने तु मन्द इति भावना, तथा यस्यामवस्थायां पुरुषस्य बलं भवति सा बलयोगाद् बला, उक्तं च
119 11
Jain Education International
"चउत्थी य बला नाम, जं नरो दसमस्सिओ ।
समत्थो बलं दरिसेउं, जइ होइ निरुवद्दवो ॥” इति,
तथा प्रज्ञाबुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं च
119 11
“पंचमिं च दसं पत्तो, आनुपुव्वीए जो नरो ।
इच्छियत्थं विचिंतेइ, कुडुंब चाभिकखइ ॥” इति
For Private & Personal Use Only
www.jainelibrary.org