SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५६० स्थानाङ्ग सूत्रम् १०/-/९७५ प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवंगता महाविदेहे च सेत्स्यतीति। तथाप्रभावती-चेटकदुहितावीतभयनगरनायकोदायनमहाराजभार्या ययाजिनबिम्बपूजार्थं स्नानान्तरं चेट्या सितवसनार्पणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च, ततो वैराग्यादनशनं प्रतिपद्य देवतया यया बभूवे, यया चोज्जयिनीराजं प्रति विक्षेपेण प्रस्तितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्त सैन्यस्योदायनमहारा जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्करकरणेनोपकराऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे श्यत इति पञ्चमं, तथा बहुपुत्रिकादेवीप्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि राजगृहे महावीरवन्दनार्थं सौधर्माद्वहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्-वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा चवन्ध्यापुत्रार्थिनी भिक्षा मागतमार्यासंघाटकंपुत्रलाभं पप्रच्छ सचधर्ममचकथत् प्राव्राजीच, सा बहुजनापत्येषुप्रीत्याऽभ्यङ्गोद्वर्तनापरायणा सातिचारा मृत्वा सौधर्ममगमत्, ततश्च्युत्वाच विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च,सा षोडशभिर्वर्षःद्वात्रिंशदपत्यानिजनयिष्यति, ततोऽसौतन्निर्वेदादार्याः प्रक्ष्यतिताश्चधर्म कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति। तथा स्थविरः-सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्यनानां पुनरयमर्थः-'खुड्डिए'त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिमहती विमानप्रविभक्तिरिति, अङ्गस्य-आचारादेचूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्गाहिका चूलिका।। _ 'वग्गचूलिय'त्तिइहचवर्गः-अध्ययनादिसमूहो, यथाअन्तकृद्दशास्वष्टौवर्गास्तस्य चूलिका वर्गचूलिका। 'विवाहचूलिय'त्ति व्याख्या-भगवती तस्याश्च लिका व्याख्याचूलिका, 'अरुणोपपात' इतिइहारुणोनामदेवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदातदध्ययनमुपयुक्तः सन् श्रमणः परिवर्तयतितदाऽसावरुणोदेवः स्वसमयनिबद्धत्वाच्चलितासनः सम्भ्रमोन्द्रान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया धुत्या दिव्यया गत्या यत्रैवासौ भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्यचभक्तिभरावनतवदनोविमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य चतदातस्य श्रमणस्यपुरतः स्थित्वाअन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुध्द्यमानध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति-सुस्वाध्यायितं सुस्वाध्यायितमिति, वरं वृणीष्व २ इति, ततोऽसाविहलोकनिष्पित्रपासःसमतृणमणिमुक्तालेष्टुकाञ्चनःसिद्धिवधूनिर्भरानुगतचित्तः श्रवणःप्रतिभणति-न मेवरेणार्थ इति, ततोऽसावरुणोदेवोऽधिकतरजातसंवेगःप्रदक्षिणांकृत्वा वन्दित्वा नमस्थित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy