SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५६१ स्थानं - १०, - एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाह 'दसही' त्यादि सूत्रद्वयं सुगमं । यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याह मू. (९७६) दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओसप्पिणीते । मू. (९७७) दसविधा नेरइया पं० तं० - अनंतरोववन्ना परंपरोववन्ना अनंतरावगाढा परंपरावगाढा अनंतराहारगा परंपराहारगा अणंतरपजत्ता परंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं जाव वेमाणिया २४ । चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं० १ रयणप्पभाते पुढवीते जहन्नेणं नेरतिताणं दसवाससहस्साइं ठिती पं० २ चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाइं ठिती पन्नत्ता ३ पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं दस सागरोवमाइं ठिती पं० ४ । असुरकुमाराणं जहन्नेणं दसवाससहस्साइं ठिती पं०, एवं जाव थणियकुमाराणं १४ बायरवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साइं ठिती पं० १५ वाणमंतरदेवाणं जहन्नेणं दस वाससहस्साइं ठिई पं० १६ बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती पं० १७ लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाइं ठिती पं० १८ । वृ. दसविहे 'त्यादि, सूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं व्यवधानस्येत्यनन्तरो - वर्त्तमानः समयः तत्रोपपन्नकाः अनन्तरोपपन्नकाः येषामुत्पन्नानमेकोऽपि समयो नातिक्रान्स्त एत इति, येषां तूत्पन्नानां द्व्यादयः समया जातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढाः - अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान्-अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, स ये तु पूर्वं व्यवहितान् सतः पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे त्वितरे, अयं तु द्रव्यकृतो भेद इति, न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । 'एव' मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानि - कान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः अथ तदाधारान् नारकादिस्थितिं चदशस्थानानुपाततो निरूपयन् 'चउत्थीए'त्यादिसूत्राष्टादशकमाह, सुगमं चैतदिति । अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्म्मकारणान्याह - मू. (९७८) दसहिं ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मं पगरेति, तं०-अनिदाणताते ? दिट्ठिसंपन्नयाए २ जोगवाहियत्ताते २ खंतिखमणताते ४ जिंतिदियताते ५ अमाइल्लता ते ६ 3 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy