SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ __५५९ स्थानं - १०,पर्युषणाकल्पो वेति, स च ‘सक्कोसजोयणं विगइनवय'मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८, तीस'मित्यादि, त्रिंशन्मोहनीयकर्मणोबन्धस्थानानिन्बन्धकारणानि वारिमज्जेऽवगाहित्ता, तसे पाणे विहिंसई त्यादिकानितत्रैवप्रसिद्धानिमोहनीयस्थानानितत्प्रतिपादकमध्ययनंतथैवोच्यत इति ९, 'आजाइट्ठाण मिति आजननमाजातिः-सम्मूर्छनगर्भोपपाततो जन्म तस्याः स्थानंसंसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १०॥ प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं ‘पसिणाईति प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौमकं-वस्त्रं अद्दागो-आदर्शः अङ्गुष्ठोहस्तावयवः बाहवो-भुजा इति॥ बन्धदशानामपि बन्धाद्यध्यनानि श्रौतेनार्थेन व्याख्यातव्यानि। द्विगृद्धिदशाश्चस्वरूपतोऽप्यनवसिताः। दीर्घदशाः स्वरूपतोऽनवगताएव, तदध्ययनानि तुकानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्रचन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनं, तथाहिराजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच-श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपेचप्रव्रजितो विराध्यचमनाक्श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरवक्तव्यता च चन्द्रवत्। नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो-ग्रहस्तद्वक्तव्यता चैवं-राजगृहे भगवन्तं वन्दित्वा शुक्रेप्रतिगते गौतमस्य तथैवभगवानुवाच-वाणारस्यांसोमिलनामाब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत्-तेभंते! उवणिज्ज', तथा सरिसवयामासाकुलत्थायतेभोज्जा ? एगेभवंदुवेभव'मित्यादि, भगवता चैतेषु विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्ममस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचन गर्तापतिष्यामितत्रैव प्राणांस्त्यक्ष्यमीत्यभिग्रहमभिगृह्य काष्ठमुद्रयामुखंबद्धा उत्तराभिमुखःप्रतस्थौ, तत्रप्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः-अहो सोमिलब्राह्मणमहर्षे ! दुष्प्रव्रजितं ते, पुनर्द्वितीयहनि तथैव सप्तपर्णस्याध उषित उक्तः तृतीयादिषु दिनेष्वश्वत्थवटोदुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ-कथंनुनाममेदुष्प्रव्रजितं?, देवोऽवोचत्-त्वंपार्श्वनाथस्यभगवतः समीपेऽणुव्रतादिकं श्रावकधर्म प्रतिपद्याधुना अन्यथा वर्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मप्रतिपद्यस्व येन सुप्रव्रजितंतव भवतीत्येवमुक्तस्तथैव चकार, ततः श्रावकत्वंप्रतिपाल्यानालोचितप्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति। तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि सा राजगृहे महावीरवन्दनाय सौधदिाजगाम, नाट्यदर्शयित्वाप्रतिजगामच, गौतमस्तत्पूर्वभवंपप्रच्छ, भगवांस्तंजगाद-राजगृहे सुदर्शनश्रेष्ठीबभूव प्रियाभिधानाचतद्भार्यातयोः सुताभूतानामबृहत्कुमारिका पार्श्वनाथसमीपे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy