________________
स्थानाङ्ग सूत्रम् २/१/६१ अन्यथा वा दीर्घत्व विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घहस्वयोरिति, एवमपि हूस्वाम् - अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घ ह्रस्वं वा कालमेव गर्हत इति।
अतीते गये कर्मणि गर्दा भवति भविष्यति तु प्रत्याख्यानम्, उक्तं च - “अईयं निंदामि पडुप्पन्नं संवरेमि अनागयं पच्चक्खामी'ति प्रत्याख्यानमाह -
मू. (६२) दुविहे पञ्चक्खाणे पं० २० - मणसा वेगे पञ्चक्खाति वयसा वेगे पच्चक्खाति, अहवा पच्चक्खाणे दुविहे पं० २० - दीहं वेगे अद्धं पच्चक्खाति रहस्सं वेगे अद्धं पच्चक्रवाति
वृ. 'दुविहे पच्चक्खाणे' इत्यादि, प्रमादप्रतिकूल्येन मर्यादय ख्यानं-कथनं प्रत्याख्यानं, विधिनिषेधविषयाप्रतिज्ञेत्यर्थः, तच्च द्रव्यतोमिथ्याध्टेः सम्यग्दष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति, भावप्रत्याख्यानमुपयुक्तस्य . सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह चमनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति। प्रकारान्तरेणापितदाह - 'अहवे'त्यादि, सुगमं । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह
मू. (६३) दोहि ठाणेहिं अनगारे संपन्ने अनादीयं अनवयग्गंदीहमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा-विजाए चेव चरणेण चेव
वृ. 'दोहिं ठाणेही'त्यादि, द्वाभ्यां स्थानाभ्यां गुणाभ्यां सम्पन्नो-युक्तो नास्त्यागारं-गेहमस्तीत्यनगारः-साधुः नास्त्यादिरस्येत्यनादिकंतत् अवदग्रं-पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदग्रं तत् दीर्घा अद्धा-कालो यस्य तद्दीर्घाद्धं तत्, मकार आगमिकः, दीर्घो वाऽध्यामार्गो यस्मिंस्तद्दीर्घाध्वं तच्चतुरन्तं-चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवारण्यं व्यतिव्रजेद्-अतिक्रामेत्, तद्यथा 'विद्ययाचैव' ज्ञानेन चैव 'चरणेन चैव' चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोर्डंगपद्येनैव कारणत्वमवगन्तव्यम्, एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात्,
नन्वनयोः कीरणतया अविशेषाभिधानेऽपिप्रधानंज्ञानमेवन चरणम्, अथवाज्ञानमेवैकं कारण न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च-यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपियज्ञेयपरिच्छेदात्मकं यच्चरागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनां च तत्त्वपरिच्छेदसमाधानादीनां करणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षणनभोगमना दिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अष्टमप्यनुमीयत इति, आह च॥१॥ “आह पहाणं नाणं न चरित्तं नाणमेव वा सुद्धं ।
कारणमिह न उ किरिया सा वि हु नाणत्फलं जम्हा ॥२॥ जह सा नाणस्स फलं तह सेसंपि तह बोहकालेवि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org