________________
स्थानं - २, - उद्देशक: -१
नेयपरिच्छेयमयं रागादिविणिग्गहो जो य जं च मनोचिंतियमंतपूयविसभक्खणादि बहुभेयं । फलमिह तं पञ्चक्खं किरियारहियस्स नाणस्स " त्ति,
अत्रोच्यते, यत्तावदुक्तम्- 'ज्ञानमेव प्रधानं ज्ञानमेव चैकं कारणं न क्रिया, यतो ज्ञानफलमवासावि’ति, तदयुक्तम्, यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकं ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं युक्तं कारणं, नाप्रधानमकारणं चेति, अथ युगपदुप- कुरुतस्तत उभयमपि युक्तं, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षात्कारित्वात् कारणमन्त्यं, ज्ञानं तु परम्परोपकारित्वादनन्त्यम्, अतः को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते ?, अथ सहचारिता - ऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति, यच्चोक्तम्
॥३॥
५३
9
'बोधकालेऽपीत्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति रागादिशमश्च संयमक्रियैव ज्ञानकारणा भवेदिदि प्रतिपद्यामहे, किन्तु तत्फले भववियोगाख्येऽयं विचारो, यदुत - किं तत् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति ?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वात्, उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, यच्चोक्तम्'अनुस्मृतिज्ञानमात्रात् मन्त्रादीनां फलमुपलभ्यते' तत्र ब्रूमो - मन्त्रेष्वपि परिजपनादिक्रियायाः साधनमभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वत्यं तत्फलं, तज्ज्ञास्याक्रियत्वात्, इह यदक्रियं न तत् कार्यस्य निर्वर्त्तकं दृष्टं, यथाऽऽकाशकुसुमं यच्च निर्वर्त्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धं, न हि ज्ञानं साक्षात्फलमुपहरदुपलक्ष्यत इति, अथ यदि न मन्त्राज्ञानकृतं तत्फलं ततः कुतः पुनस्तदिति ?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः तेषां हि सक्रियत्वेन क्रियानिर्वत्येमेतत् न मन्त्रज्ञानसाध्यमिति, आह च"तो तं कत्तो ? भण्णति, तस्समयनिबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतनाणोवओगस्स "त्ति,
119 11
Jain Education International
ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः ?, अथ द्विस्थानकानुरोधादेवं निर्देशऽपि न विरोधो, नैवमवधारणगर्भत्वात् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यं ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाञ्चापायधारणेज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्य रुचिरूपोङशः सम्यग्दर्शनमवगमरूपोङशोऽवाय एवेति न विरोधः, अवधारणं तु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति ।
विद्याचरणे च कथमात्मा न लभत इत्याह-'दो ठाणाइ' मित्यादि सूत्राण्येकादश, मू. (६४) दो ठाणाइं अपरियाणित्ता आया नो केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं
For Private & Personal Use Only
www.jainelibrary.org