________________
स्थानं -२, - उद्देशकः-१
५१ विक्रीणति सतिद्वैभाषिको विचारयतिपरियच्छावेइत्तिभणितं होति, अथवाजीवं-पुरुषं वितारयतिप्रतारयतिवञ्चयतीत्यर्थः,असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादिविप्रतारणबुद्धयैव वाऽजीवं भणत्येतादृशमेतदिति यत्सा ‘जीववेयारणिआऽजीववेयारणिया वत्ति ।
___ एतत्सर्वमतिदेशेनाह - 'जहेव नेसत्थियत्ति, अन्यथा वा द्वे 'अनाभोगवत्तिया चेव'त्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अनवकंखवत्तिया चेव'त्ति अनवकाङ्क्षस्वशरीराधनपेक्षत्वंसैव प्रत्ययो यस्याः साऽनवकाङ्क्षप्रत्ययेति, आद्या द्विधा- 'अनाउत्तआइयणया चेव'त्ति अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा अनाउत्तपमज्जणयाचेव'त्तिअनायुक्तस्यैव पात्रादिविषयाप्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति। द्वितीयाऽपि द्विधा- 'आयसरीरे' त्यादि, तत्रात्मशरीरानवकाङ्क्षप्रत्ययास्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति ।
____दो किरिये'त्यादि त्रीणि सूत्राणि, कण्ठ्यानि, नवरं प्रेम-रागो मायालोभलक्षणः द्वेषः क्रोधमानलक्षण इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति ।।
एताश्च क्रियाः प्रायोः गर्हणीया इति गर्हामाह
मू. (६१) दुविहा गरिहा पं० तं० - मणसा वेगे गरहति । वयसा वेगे गरहति । अहवा गरहा दुविहापं० तं० - दीहं वेगे अद्धं गरहति, रहस्सं वेगे अद्धं गरहति ।
वृ. 'दुविहागरहे'त्यादि, विधानं विधा द्वेविधे-भेदौ यस्याः सा द्विधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, सा चस्वपरविषयत्वेन द्विविधा, साऽपिमिथ्याटेरनुपयुक्तस्यसम्यग्दृटेश्चद्रव्यगर्दा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्यप्रधानार्थत्वाद्, उक्तंच॥१॥ “अप्पाहन्नेऽवि इहं कत्थइ दिट्ठो हुदव्वसदोत्ति।
अंगारमद्दओजह दव्वायरिओ सयाऽभव्यो॥"त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति, चतुर्दागर्हणीयभेदाबहुप्रकारावा, साचेह करणापेक्षया द्विधोक्ता, तथा चाह- मणसा वेगेगरहइत्ति मनसा-चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तापारिभूतस्वतनयराजवार्तो मनसा समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकैल्पकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्हते-जुगुप्तसे गहमिति, गम्यते, तथा वचसा वा-वाचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तत्वाज्जनरञ्जनार्थं गर्हाप्रवृत्ताङ्गारमकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगे'त्तिइह अपिः, सचसम्भावने, तेन सम्भाव्यतेअयमर्थःअपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपिन केवलं मनसा एक इति स एव गर्हते, उभयथाऽप्येक एव गर्हत इति भावः, अन्यथा गहदैिविध्यमाह - 'अहवे'त्यादि, अथवेतिपूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपिदी|बृहतीअद्धां-कालंयावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org