________________
५०
स्थानाङ्ग सूत्रम् २/१/६० मिथ्यादृष्टिरात्मानं शरीर व्यापकमपि अङ्गुष्ठपर्वमात्रं श्यामाकतन्दुलमात्रं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकंसर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा तव्वइरित्तमिच्छादसणवत्तिया चेव'त्ति तस्माद्-ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनंनास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति।
- पुनरन्यथा द्वे- 'दिट्ठियाचेव'त्ति हटेाता टिजा अथवा दृष्टं-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा टिका-दर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा दृष्टिका वा, तथा 'पुट्ठिया चेव'त्ति पृष्टिः-पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्टं-प्रश्नः वस्तु वातदस्तिकारणत्वेन यस्यां सा पृष्टिकेति, अथवास्पृष्टिः स्पर्शनंततोजाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आद्या द्वेधा- 'जीवदिट्ठिया चेव'त्ति या अश्वादिदर्शनार्थं गच्छः, तथा 'अजीवदिट्ठियाचेव'त्तिअजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो यासा अजीवष्टिकेति, एवं पुट्ठिया चेव'त्ति एव'मिति जीवाजीवभेदेन द्विधैव, तथाहि-जीवमजीवंवा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति।
पुनरन्यथा द्वे- 'पाडुच्चिया चेव'त्ति बाह्यं वस्तु प्रतीत्य-आश्रित्य भवा प्रातीत्यिकी तथा ‘सामन्तोवणिवाइया चेव'त्ति समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी आद्या द्वेधा - 'जीवपाडुच्चियाचेव'त्तिजीवंप्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीवपाडुच्चिया चेव'त्ति अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तजो वा बन्धः सा अजीवप्रातीत्यिकीति।द्वितीयापि द्विधैवेत्यतिदिशन्नाह - ‘एवं सामन्तोवणिवाइयावित्ति, तथाहिकस्यापि षण्डो रूपवानस्तितंचजनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्टतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति,
अन्यथा वा द्वे'साहत्थियाचेव'त्तिस्वहस्तेननिर्वृत्तास्वाहस्तिकी तथा 'नेसत्थियाचेव'त्ति, निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति, तत्र आद्या द्वेधा - ‘जीवसाहत्थिया चेव'त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा 'अजीवसाहत्थिया चेव'त्ति यच्च स्वहस्तगृहीतेनैवाजीवेनखङ्गाादिना जीवं मारयति सा अजीवस्वाहस्तिकीति, अथवा स्वहस्तेन जीवं ताडयत एका, अजीवंताडयतोऽन्येति । द्वितीयाऽपिजीवाजीवभेदैवत्यतिदिशन्नाह- ‘एवं नेसत्थियाचेव'त्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनं सा जीवनैसृष्टिकीति, यत्तु काण्डादीनां -- धनुरादिभिः सा अजीवनसृष्टिकीति, अथवा गुदिौ जीवं-शिष्यं पुत्रं वा निसृजतो-ददत एका, - अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, ....... पुनरन्यथाद्वे आणवणियाचेव'त्तिआज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका तज्जः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वेयारणिया चेव'त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद्वै दारिणीत्यादि वाच्यमिति॥ एतेचद्वेअपिवेधा-जीवाजीवभेदादिति, तथाहि-जीवमाज्ञापयतआनाययतोवापरेणजीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाऽऽज्ञापनी अजीवानायनी वेति ॥ तथा 'वेयारणिय'त्तिजीवमजीवं वा विदारयति-स्फोटयतीति, अथवा जीवमजीवं वाऽसमानभाषेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org