________________
४९
स्थानं-२, - उद्देशकः-१ 'दुप्पउत्तकायकिरिया चेव'त्ति दुष्प्रयुक्तस्य-दुष्टप्रयोगवतो दुष्प्रणिहितेस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौमनाक्संवेगनिर्वेदगमनेन तथा अनिन्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्ग प्रति दुर्व्यस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकायक्रियेति ५, आधिकरणिकी द्विधातत्र 'संजोयणाहिगरणियाचेव'त्तियत्पूर्व निर्वार्त्तितयोः खड्गतन्मुष्ट्यादिकयोरर्थयोः संयोजन क्रियतेसा संयोजनाऽधिकरणिकी, तथा 'निव्वत्तणाहिकरणिया चेव'त्ति यच्चादितस्तयोर्निर्वर्तनं सानिर्वर्तनाधिकरणिकीर्ति। पुनरन्यथा द्वे- 'पाडसियाचेव'त्तिप्रद्वेषो-मत्सरस्तेन निर्वृत्ताप्राद्वेषिकी, तथा 'पारियावणियाचेवत्तिपरितापन-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी, आद्या द्विधा- 'जीवपाउसियाचेव'त्तिजीवेप्रवेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसियाचेव'त्ति अजीवे-पाषाणादौ स्खलितस्यप्रद्वेषादजीवप्राद्वेषिकीति, द्वितीयाऽपिद्विधा - ‘सहत्थपारियावणिया चेव'त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्यपारितापनिकी तथा 'परहत्थपारियावणिया चेव'त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति ।
अन्यथा द्वे ‘पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपच्चक्खाणकिरिया चेव'त्ति अप्रत्याख्यानम्-अविरतिस्तन्निमित्तः कर्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा - ‘सहत्थपाणाइवायकिरिया चेव'त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया चेव'त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीवअपच्चखाणकिरिया चेव'त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिळापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीवअपच्चक्खाणकिरिया चेव'त्ति यदजीवेषु-मद्यादिष्वप्रत्याख्यानात्, कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति ।।
पुनरन्यथाद्वे 'आरंभियाचेव'त्तिआरम्भणमारम्भः तत्र भवाआरम्मिकी, तथा 'परिग्गहिया चेव'त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी।आद्या द्वेषा 'जीवआरम्भियाचेव'त्ति, यज्जीवानारभमाणस्य-उपमृद्गतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारंभिया चेव'त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति, एवं पारिग्गहियाचेव'त्ति आरम्भिकीवद्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः . पुनरन्यथा द्वे ‘मायावत्तिया चेव'त्तिमाया-शाट्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादसणवत्तिया चेव'त्ति मिथ्यादर्शनं-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आद्या द्वेधा - 'आयभाववंकणयाचेव'त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, तथा ‘परभाववंकणया चेव'त्ति परभावस्य वङ्कनता-वञ्चनता या कूटलेखकर-णादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं - “तंत भावमायरइ जेण परो वं चिजइ कूडलेहकरणाईहिं"ति, द्वितीयाऽपि द्वेधा - 'ऊणाइरित्तमिच्छादंसमवत्तिया चेव'त्ति ऊनं - स्वप्रमा- णाद्धीनमतिरिक्तं-ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि-कोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org