________________
स्थानं-१०,
____५३३ ॥१॥ “नवि अस्थि माणुसाणं तं सोक्कं नविय सव्वदेववाणं।
जं सिद्धाणं सोक्कं अव्वाबाहं उवगयाणं ।।" इति,
निष्क्रमणसुखं चारित्रसुखमुक्तं, मू. (९३५) दसविधे उवघाते पं० तं०-उग्गमोवघाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते नाणोवधाते दंसणोवघातेचरित्तोवघातेअचियत्तोवघाते सारक्खणोवघाते दसविधा विसोही पं० तं०-उग्गमविसोही उप्पायणविसोही जाव सारक्खणविसोही।
वृ. तच्चानुपहतमनाबाधसुखायेत्यतश्चारित्रस्यैतत्साधनस्य भक्तादेानादेचोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकादिना षोडशविधेनोपहननं-विराधनं चारित्रस्याकल्प्यतावा भक्तादेःसउद्गमोपघातः १,एवमुत्पादनया-धात्र्यादिदोषलक्षणयायःस उत्पादनोपघातः ‘जहा पंचट्ठाणे'त्ति भणनात् तत्सूत्रमिह दृश्यं, कियत् ?, अत आह-'जाव परी'त्यादि,
। तच्चेदम्-‘एसणोवघाए' एषणया-शङ्कितादिभेदयायःसएषणोपघातः ‘परिकम्मोवघाए' परिकर्म-वस्त्रपात्रदिसमारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः ‘परिहरणोवघाए' परिहरणा-अलाक्षणिकस्याकल्पस्य वोपकरणस्याऽऽसेवा तयायःसपरिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षयाप्रमादत्तः, दर्शनोपघातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभिः, 'अचियत्तीवधाए'त्ति अचियत्तम्-अप्रीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवधाए'त्ति संरक्षणेन शरीरादिविषये मूर्छा उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति ।
उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्गमादिविशुद्धिर्भक्तादेर्निवरद्यता, जावत्तिकरणात्एसणेत्यादिवाच्यमित्यर्थः, तत्रपरिकर्मणा-वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेः शास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य-अप्रीतकस्य विशोधिस्तनिवर्तनादचियत्तविशोधिः, संरक्षणं संयमार्थं उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाधुपाधिका दशप्रकाराऽपीयंचेतसो विशुद्धिर्विशुद्धमानता भणितेति
इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याधुपाधिकं सङ्कलेशमभिधातुमुपक्रमते, तत्र सूत्रम्
मू. (९३६) दसविधेसंकिलेसे पं० तं०-उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मनसंकिलेसे वतिसंकिलेसे कायसंकिलेसे नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे । दसविहे असंकिलेसे पं० २०-उवहिअसंकिलेसे जाव चरित्तअसंकिलेसे।
वृ. 'दसे' त्यादि, सङ्कलेशः-असमाधिः, उपधीयते-उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिः-वस्त्रादिस्तद्विषयः सङ्कलेशः उपधिसङ्कलेशः, एवमन्यत्रापि, नवरं 'उवस्सय'त्तिउपाश्रयोवसतिस्तथा कषाया एवकषायैर्वा सङ्कलेशः कषायसङ्कलेशःतथा भक्तपानाश्रितः सङ्कलेशो भक्तपानसङ्कलेशः तथा मनसो मनसि वा सङ्कलेशो वाचा सङ्कलेशः कायमाश्रित्य सङ्कलेश इतिविग्रहः, तथाज्ञानस्यसङ्कलेशः-अविशुद्दयमानतासज्ञानसङ्कलेशः, एवंदर्शनचारित्रयोरपीति एतद्विपक्षोऽसङ्कलेशस्तमधुनाऽऽह-'दसे'त्यादि, कण्ठ्यं असङ्कलेशश्च विशिष्टेजीवस्यवीर्यबले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org