________________
५३४
सति भवतीति सामान्यतो बलनिरूपणायाह
मू. (९३७) दसविधे बले पं० तं०-सोतिंदितबले जाव फासिंदितबले नाणबले दंसणबले चरित्तबले तवबले वीरितबले ।
वृ. 'दसे' त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं स्वार्थग्रहणसामर्थ्यं 'जाव' त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलं अतीतादिवस्तुपरिच्छेदसामर्थ्यं चारित्रसाधनतया मोक्षसाधनसामर्थ्यं वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणं चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्म्मग्रन्थि क्षपयति, वीर्यमेव बलं वीर्यबलं, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । चारित्रबलयुक्तः सत्यमेव भाषत इति
तन्निरूपणायाह
स्थानाङ्ग सूत्रम् १०/-/९३६
मू. (९३८) दसविसे सच्चे पन्नत्ते
वृ. दसविहे 'त्यादि, सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत्प्रज्ञप्तं,
तद्यथा-
मू. (९३९) 'जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे ६ य । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १० ॥
वृ. ‘जणवय’गाहा, ‘जणवय'त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषुदेशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्टिष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, 'समय'त्ति संमतं च तत् सत्यं चेति सम्मतसत्यं, तथाहि - कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमत्वादिति,
'ठवण' त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकम्र्म्मार्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं, यथा अजिनोऽपिजिनोऽयमनाचार्योऽ प्याचार्योऽयमिति, 'नामे' त्ति नाम- अभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, 'रूवे' त्ति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यतेन चासत्यताऽस्येति, 'पडुच्चसच्चे य'त्ति प्रतीत्य- आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं, यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहितस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता,
'ववहार' त्ति व्यवहारेण सत्यं व्यवहारसत्यं, यथा दह्यते गिरिः गलति भाजनं, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति, 'भाव'त्ति भावं भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटवात् शुक्लेति, 'जोगे' त्ति योगतः संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद् दण्डः छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवोपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International