________________
स्थानं - १०, -
यथा द्रव्यतो नामैका हिंसा न भावतः १
अन्या भावतो न द्रव्यतः अन्या भावतो द्रव्यतश्च ३ अन्या न भावतो नापि द्रव्यतः ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १ द्रव्यतोऽन्या न भावतः २ न द्रव्यतोऽन्या भावतः ३ अन्या न द्रव्यतो न भावतः ४ इति तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्मं, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति ।
मू. (९०४) जंबूमंदरिदाहिणेणं गंगासिंधुमहानदीओ दस महानदीओ समप्पेति, तं०जउणा १ सरऊ २ आवी ३ कोसी ४ मही ५ सिंधू ६ विवच्छा ७ विभासा ८ एरावती ९ चंद्रभागा १० । जंबूमंदरउत्तरेणं रत्तारत्तवतीओ महानदी ओ दस महानदीओ समप्पेति, तं०-किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा ।
५२१
वृ. पूर्वं गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यश्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपि नवरं यावत्करणात् 'इंदसेणा वारिसेण 'त्ति द्रष्टव्यमिति ।
मू. (९०५) जंबुद्दीवे २ भरहवासे दस रायहाणीओ पं० (तं० ) - 1
वृ. 'रायहाणीओ'त्ति राजा धीयते -विधीयते अभिषिच्यते यासु ता राजधान्यः - जनपदानां मध्ये प्रधाननगर्यः, I
मू. (९०६) चंपा १ महुरा २ वाणारसी ३ य सावत्थी ४ तहत सातेतं ५ । हत्थिणउर ६ कंपिल्लं ७ मिहिला ८ कोसंबि ९ रायगिहं १० ॥
वृ. 'चंपा' गाहा, चम्पानगरी अङ्गजन पदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु ' हत्थिणपुरं' ति नागपुरं कुरुजनपदे काम्पिल्यं पाश्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृहं मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात्, मासस्यान्तर्द्विस्त्रिर्वा प्रविशतां त्वाज्ञादयो दोषा इति,
119 11
एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवेताः अर्द्धषड्विशतावार्यजनपदेषु षड्विशतेर्नगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तदिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह“दसरायहाणिगहणा सेसाणं सूयणा कया होइ। माससंतो दुगतिग ताओ अइंतंमि आणाई ॥ -दोषाश्चेह“तरुणावेसित्थिविवाहरायमाईसु होई सइकरणं । आउज्जगीयसद्दे हत्थी सद्दे य सवियारे ॥” इति
मू. (९०७) एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तं०भर हे सगरी मधवं सणकुमारो संती कुंथू अरे महापउमे हरिसेणो जयनामे ।
वृ. 'एतास्वि' ति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानः
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
Jain Education International