________________
स्थानं-१०,
५१९
शब्दपरिणामः शुभाशुभभेदाद् द्विधेति।अजीवपररिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरिक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं 'दसविहे'त्यादिना सूत्रेणाह
मू. (९०१) दसविधे अंतलिखिते असल्झाइए पं० २०-उक्कावाते दिसिदाधे गञ्जिते विजुते निग्घाते जूयते जक्खालित्ते घूमिता महिता रतउग्घाते । दसविहे ओरालिते असज्झातिते पं० तं०-अहि मंसं सोणिते असुतिसामंते सुसाणसामंते चंदो वराते सूरोवराए पडणे रायवुग्गहे उवसयस्स अंतो ओरालिए सरीरगे
वृ. तत्र अंतलिक्खए'त्ति अन्तरिक्ष-आकाशंतत्रभवमान्तरीक्षकं स्वाध्यायो-वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का-आकाशजा तस्याः पातः उल्कापातः, तथा दिशो दिशि वादाहो दिग्दाहः, इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाह इति, गर्जितंजीमूतध्वनिः, विद्युत्-तडिनिर्घातः-साभ्रे निरभ्रेवा गगनेव्यन्तरकृतोमहागर्जितध्वनिः, 'जूयए'त्ति सन्ध्याप्रभा चन्द्रप्रभाच ययुगपद्भवतस्तत्जुयगोत्तिभणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्रचन्द्रप्रभाऽऽवृतासन्ध्याअपगच्छन्तोनज्ञायतेशुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने कालवेला न जानन्त्यतस्तस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपं॥१॥ “दिसिदाहो छिन्नमूलो उक्कसरेहा पयासजुत्ता वा ।
संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि।" जक्खालित्तंतियक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवताछलनांकरोति, धूमिका-महिकाभेदोवर्णतोधूमिकाधूमाकाराधूनेत्यर्थः, महिकाप्रतीता, एतच्चद्वयमपिकार्त्तिकादिषुगर्भमासेषुभवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात्सर्वम कायभावितंकरोतीति, रयउग्धाए'त्ति विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह
'दसविहे ओरालिए'इत्यादि, औदारिकस्य-मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकं, तत्रास्थिमांशोणितानिप्रतीतानि, तत्रपञ्चेन्द्रियतिरश्चामस्वाध्यायिकंद्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे चाप्यधीयते, यदाह-"सोणियं मंसं चम्मं अट्ठीवि य होंति चत्तारि" इति, क्षेत्रतः षष्टिहस्ताभ्यन्तरे,कालतः सम्भवकालाद्यावत्तृतीयापौरुषीमार्जारादिभिमूषिकादिव्यापादनेऽहोरात्रं चेति, भावतः सूत्रं नन्द्यादिकंनाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् आर्त्तवं दिनत्रयं स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निनादग्धान्युदकवाहेन वाव्यूढान्यस्वाध्यायिकंनभवति, भूमिनिखातान्यस्वाध्यायिकमिति,
तथा अशुचीनि-अमेध्यानिमूत्रपुरीषाणितेषां सामन्तं०समीपमशुचिसामन्तमस्वाध्यायिक भवति, उक्तंच कालग्रहणमाश्रित्य-“सोणियमुत्तपुरीसेघाणालोयंपरिहरेज्जा" इति श्मशानसामन्तंशबस्थानसमीपं, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरञ्जनंचन्द्रोपरागोग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह तचेदंकालमान-यदिचन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथावनिमज्जति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org