________________
स्थानाङ्ग सूत्रम् १०/-/९०० क्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यकत्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः स च त्रिधा सम्यकत्वमिध्यात्वमिश्रभेदात्
५१८
सम्यकत्वे सति चारित्रमिति ततस्तत्परिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति, स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्द्दष्टेति चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः स च स्त्र्यादिभेदात् त्रिविध इति ।
'अजीवे' त्यादि, अजीवानां पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं- पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत्
119 11
"समनिद्धयाए बंधो न हो समलुक्खयायवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ "
एतदुक्तं भवति-समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते
|| 9 || “निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा ॥” इति
गतिपरिणामोद्विविधः-स्पृशद्गतिपरिणाम इतरश्च तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्द्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि अभ्रङ्कषहम्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घहस्यभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डलवृत्तत्र्यनचतुरनायतभेदात्पञ्चविधः, भेदपरिणामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृत्पिण्डस्येव १ प्रतरभेदोऽभ्रपटलस्येव २ अनुतटभेदो वंशस्येव ३ चूर्णभेदः चूर्णनं ४ उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति,
वर्णपरिणामः पञ्चधा गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा स्पर्शपरिणामोऽष्टधा न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वागमनस्वभावं यद्द्रव्यं तदगुरुकलधुकं अत्यन्तसूक्ष्मं भाषा मनःकर्मद्रव्यादि तदेव परिणामः परिणामतद्वतोरभेदात् अगुरुलघुकपरिणामः एतद्ग्रहणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद्गुरुलघुकं औदारिकादि स्थूलतरमित्यर्थः, इदमुक्तस्वरूपं द्विविधं वस्तु निश्चनयमतेन व्यवहारतस्तु चतुर्द्धा, तत्र गुरुकं - अधोगमनस्वभावं वज्रादि लघुकं-ऊर्ध्वगमनस्वभावं धूमादि गुरुकलधुकं - तिर्यग्गामि वायुज्योतिष्कविमानादि अगुरुलघुकं - आकाशादीति, आह च भाष्यकारः
119 11
॥२॥
-
"निच्छयओ सव्वगुरू सव्वलहुं वा न विजई दव्वं ।
बायरमिह गुरुलहुयं अगुरुलहु सेसयं दव्वं ॥ गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्सा । दव्वं लेट्ठू १ दीवो २ वाऊ ३ वोमं ४ जहासंखं ।।” इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org