________________
स्थानं-१०,
मू. (८९९) दसविधे समणधम्मे पं० त०-खंती मुत्ती अजवे मद्दवे लाघवे सच्चे संजमे तवे चिताते बंभचेरवासे । दसविधे वेयावचे पं० तं०-आयरियवेयावच्चे १ उवज्झायवेयावच्चे २ थेरवेयावच्चे ३ तवस्सि०४ गिलाण०५ सेह०६ कुल०७गण०८ संघवे ९ साहम्मियवेयावच्चे१०
वृ. प्रव्रज्यावतश्च श्रेणधर्मस्तद्विशेषश्च वैयावृत्त्यमिति तत्सूत्रे जीवधर्माश्चैत इति जीवपरिणामसूत्रमेतद्विलक्षणत्वादजीवपरिणामसूत्रं, सुगमानि चैतानि, श्रमणधर्मो व्याख्यात एव, नवरं 'चियाए'त्ति त्यागो दानधर्म इति । व्यावृत्तो व्यापृतो वा व्यापारस्तत्कर्म वैयापृत्त्यं वैयावृत्त्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, ‘साहमिय'त्तिसमानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिकाः-साधवः।
मू. (९००) दसविधेजीवपरिणामे पं०२०-गति परिणामेइंदितपरिणामेकस्सायपरिणामे लेसा० जोगपरिणामे उवओग० नाण० देसण० चरित्त० वेतपरिणामे। दसविधे अजीवपरिणामे पं०, तं०-बंधणपरिणामे गति० संठाणपरिणामे भेद० वण्ण० रस० गंध० फास० अगुरुलहु० सद्दपरिणामे।
वृ. परिणामे'त्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह॥१॥ “परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानं ।
नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥"
-द्रव्यार्थनयस्येकति.॥१॥ "सत्पर्ययेण नाशःप्रादुर्भावोऽसताच पर्ययतः।
द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य ।।" इति, जीवस्य परिणामः२ इति विग्रहः, सचप्रायोगिकः, तत्र गतिरेवपरिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयानारकादिव्यपदेशहेतुः तत्परिणामश्चाऽऽभवक्षयादिति, सच नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह
_ 'इंदियपरिणामे'त्ति स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामेचसतिलेश्यापरिणतिर्नतुलेश्यापरिणतौ कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद्भवति, यत उक्तम्॥१॥ “मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुवकोडीओ।
नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेस्साए॥" इति अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात् षोढेति, अयं च योगपरिणामे सति भवति, यस्मानिरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः-'समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवती'तिलेश्यापरिणामानन्तरं योगपरिणाम उक्तः, स च मनोवाक्कायभेदाविधेति, संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, स च साकारानाकारभेदाद् द्विधा,
सतिचोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, सचाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्याटेनिमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org