________________
स्थानाङ्ग सूत्रम् १०/-/८९४
करणसंवरः-अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौधिकोपकरणापेक्षः तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यत्संवरणं-सङ्गोपनं स शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्समस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति । - असंवरस्यैव विशेषमाह
मू. (८९५) दसहिं ठाणेहिं अहमंतीति थंभिज्जा, तं०-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८ नागसुवन्ना वा मे अंतितं एव्वमागच्छंति ९ पुरिसधम्मातो वा मे उत्तरिते अहोधिते नाणदंसणे समुप्परन्ने १० ।
वृ. 'दसही' त्यादि, स्पष्टं, नवरं 'अहमंती' ति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्त्ती, अथवाऽनुस्वारप्राकृततयेति अहं अतिः - अति शयवानिति एवंविधोल्लेखेन 'थंभिज्ज' त्ति स्तभ्नीयात् स्तब्धो भवेत् माद्येदित्यर्थः, यावत्करणात् ‘बलमएण रूवमएण सुयमएण तवमएण लाभमएणे 'ति दृश्यं, तथा 'नागसुवन्ने ति नागकुमाराः सुपर्णकुमाराश्च वा विकल्पार्थः मे मम अन्तिकं समीपं 'हव्वं' शीघ्रमागच्छन्तीति, पुरुषाणां - प्राकृतपुरुषाणां धर्मो-ज्ञानपर्यायलक्षणस्तस्माद्वा सकाशात् उत्तरः- प्रधानः स एवौत्तरिकः 'अहोधिय'त्ति नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनं प्रतीतमिति ।
५१६
मू. (८९६) दसविधा समाधी पं० तं०-पाणातिवायवेरमणे मुसा० अदिन्ना- मेहुणापरिग्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण० उच्चारपासवणखेलसिंधाणगपारिट्ठावणितासमिती, दसविधा असमाधी पं० तं०-पाणतिवाते जाव परिग्गहे इरिताऽसमिती जाव उच्चारपांसवणखेलसिंघाणगपारिट्ठावणियाऽ समिती ।
वृ. नवरं 'समाहि'त्ति समाधानं समाधिः- समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधेति ।
मू. (८९७) दसविधा पव्वज्जा पं० (तं०) -
वृ. उक्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति तत्सूत्रं, समाधीतरयोराश्रयः प्रव्रज्येति तत्सूत्रं -
मू. (८९८) छंदा १ रोसा २ परिजुन्ना सुविणा ४ पडिस्सुना ५ चेव । सारणिता ६ रोगिणीता ७ अणाढिता ८ देवसन्नत्ती ९ ॥ वच्छणुबंधिता १० वृ. 'छंदा' गाहा, 'छंद' त्ति छन्दात् स्वकीयादभिप्रायविशेषाद्गोविन्दवाचकस्येव सुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव या सा छंदा 'रोसा य'त्ति रोषात् शिवभूतेरिव या सा रोषा 'परिजुण्ण' त्ति परिद्युना दारिद्रयात्काष्ठहारकस्येव या सा परिघूना 'सुविणे' ति स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना 'पडिसुया चेव' त्ति प्रतिश्रुतात् प्रतिज्ञानाद् या सा प्रतिश्रुताशालिभद्रभगिनीपतिधन्यकस्येव 'सारणिय'त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्धयादिराजानामिव 'रोगिणिय'त्ति रोगः आलम्बनतया विद्यते यस्यां सा रोगिणी सैव रोगिणिका सनत्कुमारस्येव 'अणाढिय'त्ति अनाताद् - अनादराद्या सा अनाता नंदिषेणस्येव अनाध्तस्य वा शिथिलस्य या सा तथा 'देवसन्नत्ति 'त्ति देवसंज्ञप्ते:देवप्रतिबोधनाद्या सा तथा मेतायदेरिवेति, 'वच्छाणुबंधा य'त्ति गाथातिरिक्तं वत्सः पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org