________________
४९२
स्थानाङ्ग सूत्रम् ९/-1८३४ अशुभप्रकृतिरूपस्यायतनानि-बन्धहेतव इति । पापहेत्वधिकारात् पापश्रुतसूत्रं, कण्ठ्यम्. ।
मू. (८३४) नवविध पावसुयपसंगे पं० (तं०)
वृ. नवरं पापोपादानहेतुः श्रुतं-शास्त्रं पापश्रुतं तत्र प्रसङ्ग-तथाऽऽसेवारूपः विस्तरोवासूत्रवृत्तिवार्तिकरूपः पापश्रुतप्रसङ्गः.। मू. (८३५) उप्पाते १ निमित्ते २ मंते ३ आतिक्खिते ४ तिगिच्छते ५ ।
कला ३ आवरणे ७ऽन्नाणे ८ मिच्छापावतणेति त ९॥ वृ. 'उप्पाए सिलोगोतत्रोत्पातः-प्रकृतिविकाररूपः सहजरुधिरवृष्टयादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं-अतीतादिपरिज्ञानोपायशास्त्रं कूटपर्वतादि २ मन्त्रोमन्त्रशास्त्रं जीवोद्धरणगारुडादि ३ ‘आइक्खिए'त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः ४
चैकित्सिकं-आयुर्वेदः ५ कला-लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपितथा ६आवियतेआकाशमनेनेत्यावरण-भवनप्रासादनगरादितल्लक्षणशास्त्रमपि तथा वास्तुविद्येत्यर्थः ७ अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि ८
मिथ्याप्रवचन-शाक्यादितीर्थिकशासनमिति ९ एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये॥
उत्पतादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह
मू. (८३६) नव नेउणिता वत्थू पं० २०-संखाणे निमित्ते कातिते पोराणे पारिहत्थिते परपंडिते वातिते भूतिकम्मे तिगिच्छते।
वृ. 'नवनिउणे'त्यादि, निपुणं-सूक्ष्मज्ञानंतेनचरन्तीतिनैपुणिकाःनिपुणाएववानैपुणिकाः 'वत्थुत्तिआचार्यादिपुरुषवस्तूनि पुरुषा इत्यर्थः, ‘संखाणे सिलोगो, सङ्घयानं-गणितंतद्योगात्पुरुषोऽपि तथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिक-शारीरिकम्इडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो-वृद्धः, सचचिरजीवित्वाद्दष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा-शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति,
___ 'पारिहत्थिए'त्तिप्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्तेति, तथा परः-प्रकृष्टः पण्डितः परपण्डितो-बहुशास्त्रज्ञः परो वा-मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंस
निपुणो भवति, वैद्यकृष्णकवदिति, वादीवादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि-अध्ययनविशेषा एवेति । एतेच नैपुणिकाः साधवो गणान्त विनो भवन्तीति गणसूत्रं
मू. (८३७) समणस्स णं भगवतो महावीरस्स नव गणा हुत्था, तं०-गोदासे गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सवातितगणेकामड्ढितगणे माणवगणे कोडितगणे ९।
वृ. 'समणस्से'त्यादि सूत्रं कण्ठ्यं, नवरं गणाः-एकक्रियावानानां साधूनां समुदायाः, गोदासादीनि च तन्नामानीति । उक्तगणवर्त्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org