________________
४८६
स्थानाङ्ग सूत्रम् ९/-/८०५ नवविहा सव्वजीवोगाहणा पं० तं०-पुढविकाइओगाहणा आउकाइओगाहणा जाव वणस्सइकायओगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चउरिंदियओगाहणा पंचिंदियओगाहणा १३ जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तं०पुढविकाइयत्ताए जाव पंचिंदियत्ताए १४।
वृ. तस्माजीवाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहैव “जदत्थिं च णं लोए तं सव्वं दुप्पडोयारं, तंजहा-जीवच्चेअअजीवच्चेअ" अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जरे च मोक्षस्य तदा संसारकारणत्यागेनेतरत्रप्रवर्तते नान्यथेत्यतः षट्कोपन्यासः मुख्यसाध्यख्यापनार्थं च मोक्षस्येति।
अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिर्वर्तनरोगोत्पत्तिकारणप्रतिपादनाय 'नवविहे'त्यादिसूत्रपञ्चदशकमाह, सुगमं चेदं, नवरं अवगाहन्ते यस्यांसाअवगाहना-शरीरमिति, वत्तिंसुव'त्तिसंसरणंनिवर्तितवन्तः-अनुभूतवन्तः, एवमन्यदपि.
मू. (८०६) नवहिं ठाणेहिं रोगुप्पत्ती सिया तं०-अचासणाते अहितासणाते अतिनिदाए अतिजागरितेण उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगमणेणं भोयणपडिकूलताते इंदियत्थविकोवणयाते १५।।
वृ. 'अच्चासणयाए'त्ति अत्यन्तं-सततमासनं-उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता तया, अर्थोविकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात् तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, 'अहियासणयाए'त्तिअहितं-अननुकूलंटोलपाषाणाद्यासनंयस्यसतथा, शेषंतथैव, तया, अहिताशनतया वा, अथवा ‘सोऽजीर्णे भुज्यते यत्तु, तदध्यसनमुतच्यते ।' इति वचनात् तदध्यसनं-अजीर्णे भोजनंतदेवतत्ता तयेति, भोजनप्रतिकूलता-प्रकृत्युनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादिविषयाणां विकोपन-विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि स्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तम्-- ॥१॥ "आदावभिलाषः १ स्याच्चिन्ता तदनन्तरं २ ततः स्मरणम् ३ ।
तदनु गुणानां कीर्तन ४ मुद्वेगश्च ५ प्रलापश्च ६ उन्माद ७
स्तदनु ततो व्याधि ८र्जडता ९ ततस्ततो मरणम् १०॥" इति विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राज्यक्ष्मादिरोगोत्पत्तिः स्यादिति शारीरोगोत्पत्तिकारणान्युक्तान्यथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह
मू. (८०७) नवविधेदरिसणावरणिज्जे कम्मे पं० २०-निद्दा निद्दानिद्दा पयला पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे अवधिदंसणावरणे केवलदसणावरणे ।
वृ. 'नवे'त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मकोबोधोदर्शनंतस्यावरणस्वभावं कर्म दर्शनावरणं तत् नवविधं, तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गतौ' नियतं द्राति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org