________________
स्थानं -९,
४८७ कुत्सितत्वमविस्पष्टत्वंगच्छतिचैतन्यमनयेति निद्रा-सुखप्रबोधां स्वापावस्था नखच्चोटिकामात्रेणापि यत्र प्रबोधोभवतितद्विपाकवेद्या कर्मप्रकृतिरपिनिद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दुःखेन बहुभिङ्खलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्टउर्ध्वस्थितोवाप्रचलत्यस्यांस्वापावस्थायामिति प्रचला, साघुपविष्टस्योस्थितस्य वाघूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपिप्रचलेतिउचत्यते,
तथेव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्कमणादि कुर्वतः स्वप्तुर्भवत्यतः स्थानस्थितस्वप्त भवांप्रचलामपेक्ष्यातिशायिनीतद्विपाका कर्मप्रकृतिरपिप्रचलाप्रचला, स्त्यानाबहत्वेन सङ्घातमापन्न गद्धि:-अभिकाङ्गजाग्रदवस्थाऽध्यवसितार्थसाधनविषयायस्यांस्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यांजाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयतिस्त्यानावा-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपाऽस्यामिति स्त्यानद्धिरित्यप्युच्यते, तद्भावे हि स्वप्तः केशवार्द्धबलसध्शी शक्तिर्भवति, अथवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, ताशविपाकवेद्या कर्मप्रकृतिरपिस्त्यानर्द्धिः स्त्यानगृद्धिरिति वा, . तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं-सामान्यग्राही बोधश्चकक्षुर्दर्शनंतस्यावरणंचक्षुर्दर्शनावरणं, अचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वायदर्शनं तदचक्षुर्दर्शनंतस्यावरणमचक्षुर्दर्शनावरणं, अवधिना-रूपिमर्यादया अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं-सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं! तथा केवलं-उक्तस्वरूपंतच्च तद्दर्शनंचतस्यावरणं केवलदर्शनावरणमित्युक्तंनवविधंदर्शनावरण
मू. (८०८) अभिती णं नक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धि जोगं जोतेति, अभीतिआतिआ णं नवनक्खत्ता णं चंदस्स उत्तरेणं जोगं जोतेंति, तं०-अभीती सवणो धनिट्ठा जाव भरणी।
__ वृ. जीवानां कर्मणः सकाशान्नक्षत्रादिदेवत्वं तिर्यकत्वं मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दं अभीत्यादि हम्मिहति सचक्केहि' इत्येतदन्तमाह सुगमंच, नवरं 'साइरेग'त्ति सातिरेकान्नव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्तस्य द्विषष्टिभागैः षट्षष्टया च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, उत्तरेणजोगं'तिउत्तरस्यांदिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः।
मू. (८०९) इमीसे णं रयणप्पभाते पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नवजोअणसताइ उद्धं अबाहाते उवरिल्ले तारारूवे चारं चरति। वृ. 'बहुसमरमणिज्जाउ'
त्तिअत्यन्तसमोबहुसमोऽतएवरमणीयो-रम्यस्तस्माद्भूमिभागात् नपर्वतापेक्षया नापिश्वभ्रापेक्षयेति भावः, 'आबाधाए'त्तिअन्तरे कृत्वेति वाक्यशेषः, उवरिल्लेति उपरितनं तारारूपं-ताराकजातीयं 'चारं' भ्रमणं 'चरति' आचारति।
मू. (८१०) जंबूदीवे णं दीवे नवजोयणिआ मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org