________________
स्थानं - ९, -
इत्येवंविधप्रमाणातिक्रमेणाहारकः - अभ्यवहर्त्ता 'सदा' सर्वदा भवति, खाद्यस्वाद्योरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोर्ग्रहणमिति ६ 'नो पूर्वरतं'नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं' तथैव द्यूतादिरमणलक्षणं 'स्मर्त्ता' चिन्तयिता भवति ७ 'नो शब्दानुपाती 'ति शब्दं मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति अनुसरतीत्येवंशीलः शब्दानुपाती एवं रूपानुपाती श्लोकं ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८
४८५
'नो सातसौख्यप्रतिबद्ध' इति सातात् पुण्यप्रकृतेः सकाशाद्यत्सौख्यं - सुखं गन्धरसस्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः तत्परो ब्रह्मचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति ९ ।
उक्तविपरीताः अगुप्तयोऽप्येवमेवेति ।
उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्यं जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह
यू. (८०३) अभिणदणाओ नं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं विइक्कतेहिं समुप्पन्ने ।
वृ. ‘अभिनंदणे' त्यादिकण्ठ्यं । अभिनन्दनसुमतिजिनाभ्यां च सद्भूताः पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयन्नाह
मू. (८०४) नव सब्भावपयत्था पं० तं० - जीवा अजीवा पुण्णं पावो आसवो संवरो निजरा बंधो मोक्खो ९ ।
वृ. ‘नव सब्भावे' त्यादि, सद्भावेन-परार्थेनानुपचारेणेत्यर्थः पदार्था वस्तूनि सद्भावपदार्थाः, तद्यथा- जीवाः सुखदुःखज्ञानोपयोगलक्षणाः, अजीवास्तद्विपरीताः पुण्यं शुभप्रकृतिरूपं कर्म पापं तद्विपरीतं कर्मैव आश्रूयते-गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुरिति भावः, संवरःआश्रवनिरोधो गृप्त्यादिभिः, निर्जरा विपाकात् तपसा वा कर्म्मणां देशतः क्षपणा, बन्धःआश्रवैरात्तस्य कर्म्मण आत्मना संयोगः, मोक्षः कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानमिति, ननुजीवाजी-वव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात्, तथाहि पुण्यपापे कर्म्मणी बन्धोऽपि तदात्मक एव कर्म्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य स चात्मनं पुद्गलांश्च विरह्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशस- र्व्वभेद आत्मनः परिणामो निवृकत्तिरूपो, निर्जरा तु कर्म्मपरिशाटो जीवः कर्म्मणां यत् पाप्थक्यापमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्म्मविरहित इति ।
मू. (८०५) नवविहा संसारसमावन्नगा जीवा पं० तं०- पुढविकाइया जाव वणस्सइकाइया बेइंदिया जाव पंचिंदितत्ति १ पुढविकाइया नवगइया नवआगतिता पं०- तं०- पुढवीकाइए पुढविकाइएसु उववज्ज्रमाणे पुढविकाइएहिंतो वा जाव पंचिंदियेहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकायत्तं विप्पजहमाणे पुढविकाइयत्ताए जाव पंचिंदियत्ताते वा गच्छेज्जा २ एवमाउकाइयावि ३ जाव पंचिंदियत्ति १० नवविधा सव्वजीवा पं० तं०- एगिंदिया बेइंदिया तेइंदिया चउरिंदिया नेरतिता पंचेंदियतिरिक्खजोणिया मणुस्सा देवा सिद्धा ११ अथवा नवविहा सव्वजीवा पं० तं०-पढमसमयनेरतिता अपढमसमयनेरतिता जाव अपढमसमयदेवा सिद्धा १२
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International