SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४८४ स्थानाङ्ग सूत्रम् ९/-/८०१ सम्यग्विधेयेतिप्रतिपादनपरं महापरिक्षेति ९ । मू. (८०२) नव बंभचेरगुत्तीतो पं० तं०-विवित्ताई सयणासणाई सेवित्तोभवति नो इत्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसत्ताई १ नो इत्थिणं कहं कहेत्ता २ नो इत्थिठाणाई सेवित्ता भवति ३ नो इत्थीणमिंदिताई मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता भवइ ४ नो पणीतरसमोती ५ नो पाणभोयणस्स अतिमत्तं आहारते सता भवति ६ नो पुव्वरतं पुव्वकीलियं समरेत्ता भवति ७ नो सद्दाणुवाती नो रूवाणुवाती नो सिलोगाणुवाती ८ नो सातसोक्खपडिबद्ध यावि भवति ९। नव बंभचेरअगुत्तीओ पं० तं० विवित्ताइ सयणासणाइं सेवित्ता भवइ, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवइ इत्थीणं ठाणाइं सेवित्ता भवति इत्थीणं इंदियाइंजावनिज्झाइत्ताभवति पणीयरसभोईपाणभोयणस्सअइमायमाहारएसयाभवइपुव्वरयं पुव्वकीलियं सरित्ता भवइ सद्दाणुवाई रूवानुवाई सिलोगानुवाई जाव सायासुक्खपडिबद्धे यावि भवति। वृ.ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयतइति ब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह-'नेवे'त्यादि, ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयो-रक्षाप्रकाराः ब्रह्मचर्यगुप्तयः, 'विविक्तानि' स्त्रीपशुपण्डकेभ्यः पृथग्वर्तीनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च ‘सेविता'तेषां सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवात्, एतदेव सुखार्थी व्यतिरेकेणाह-नो स्त्रीसंसक्तानि-नो देवीनारीतिरश्चीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिः-गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डकाः-नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषःप्रतीत एवेत्येकम् १, नो स्त्रीणां केवलानामिति गम्यते 'कथां' धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपांयदिवा 'कर्णाटीसुरतोपचारकुशला लाटी विदग्धप्रिया' इत्यादिकांप्रागुक्तांवा जात्यादिचातूरूपांकथयिता-तत्कथकोभवतिब्रह्मचारीति द्वितीयं २, 'नोइत्थिगणाईतीह सूत्रं ह-श्यते केवलं 'नोइथिठाणाइंति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात्प्रक्रमानुसारित्वाच्चास्येतीदमेवव्याख्यायते-नोस्त्रीणां तिष्ठन्ति येषुतानिस्थानानिनिषद्याः स्त्रीस्थानानि तानि सेविता भवतिब्रह्मचारी, कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्त्तनोपविशेदिति, श्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति ३ नोस्त्रीणामिन्द्रियाणि-नयननासिकादीनिमनोहरन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमानि आलोक्यालोक्य 'निद्धर्याता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति ४ 'नो प्रणीतरसभोगी'नो गलस्नेहबिन्दुभोक्ता भवति ५ नो पानभोजनस्य रूक्षस्याप्यतिमात्रस्य॥१॥ “अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए। वाऊपवियारणट्ठा छब्भायं ऊणयं कुजा ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy