________________
स्थानं ८,
-
४८३
वृ. 'जाती' त्यादि जाती- त्रीन्द्रियजातौ कुलकोटीनां योनिप्रमुखाणां-योनिद्वारकाणां यानि शतसहस्राणि तानि तथेति ॥
-
मू. (७९९) जीवा णं अट्ठठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं०-पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्यत्तिते, एवं चिणउवचिण जाव निजरा चेव अट्ठपतेसिता खंधा अनंता पन्नत्ता, अट्ठपतेसोगाढा पोग्गला अनंता पन्नत्ता जाव अट्ठगुणलुक्खा पोग्गला अनंता पन्नत्ता
स्थानं ८ समाप्तम्
-
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे अष्टमस्थानस्य टीका परिसमाप्ता । स्थानं - ९
वृ. व्याख्यातमष्टममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सङ्ख्याक्रमकृत एवैकः सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्म्मा उक्ताः इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम्
मू. (८००) नवहिं ठाणेहिं समणे निग्गंथे संभोतितं विसंभोतितं करेमाणे नातिक्कमति, तं०-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुल० गण० संघ० नाण० दंसण० चरित्तपडिणीयं ।
वृ. 'नवहिं ठाणेहिं समणे' इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः -पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च कश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनां प्रत्यनीकतां करोति, तं च विसम्भोगिकं कुर्वन्नपरः सुश्रमणो नाज्ञामतिक्रामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सम्बन्धत एवोक्तेति । स्वयं ब्रह्मचर्यव्यवस्थित एव चैवं करोतीति तदभिधायकाध्ययनानि दर्शयन्नाह
मू. (८०१ ) नव बंभचेरा पं० -सत्थपरिन्ना लोगविजओ जाव उवहाणसुयं महापरिन्ना ।
वृ. 'नव बंभचेरे' त्यादि, ब्रह्म-कुशलानुष्ठानं तच्च तच्चर्यं चासेव्यमिति ब्रह्मचर्यं संयम इत्यर्थः तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि तत्र शस्त्रं द्रव्यभावभेदादनेकविधं तस्य जीवशंसनहेतोः परिज्ञा - ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा १, 'लोकविजओ' त्ति भावलोकस्य रागद्वेषलक्षणस्य विजयो- निराकरणं यत्राभिधीयते स लोकविजयः २ ‘सीओसणिज्जं 'ति शीताः - अनुकूलाः परीषहा उष्णाः - प्रतिकूलास्तानाश्रित्य यत्कृतं तच्छीतोष्णीयम् ३ 'सम्मत्तं ' त्ति सम्यकत्वमचलं विधेयं न तापसादीनां कष्टतपः सेविनामगुणेश्वर्यमुद्वीक्ष्यष्टिमोहः कार्य इति प्रतिपादनपरं सम्यकत्वं ४ 'आवंती' त्ति आद्यपदेन नामान्तरेण तु लोकसारः, तच्चाज्ञानाद्यासारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमर्थं लोकसारः ५ 'धूयं' ति धूतं सङ्गानां त्यजनं तत्प्रतिपादकं धूतमिति ६ 'विमोहो' त्ति मोहसमुत्थेषु परीषहोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७ महावीरासेवितस्योपधानस्य-तपसः प्रतिपादकं श्रुतं-ग्रन्थ उपधानश्रुतमिति ८ महती परिज्ञा- अन्तक्रियालक्षणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org