SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, - ४८१ मू. (७८७) महासुक्कसहस्सारेसु णं कप्पेसु विमाण अट्ठ जोयणसताई उड्डुं उच्चत्तेणं पन्नत्ता । वृ. 'महासुक्के' त्यादि कण्ठ्यं । मू. (७८८) अरहतो णं अरिट्टनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिया वादिसंपया हुत्था । वृ. अनन्तरोक्तविमानवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह'अरहओ' इत्यादि, सुगमं । एतेषां च नेमिनाथस्य विनेयानमध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्म्मस्थितीनामायुष्कस्थित्या समीकरणार्थं केवलिसमुद्घातं कृतवानिति समुद्घातमाह मू. (७८९) अट्ठसमतिए केवलिसमुग्धाते पं० तं०-पढमे समए दंड करेति बीए समए कवाडं करेति ततिए समए मंथानं करेति चउत्थे समए लोगं पूरेति पंचमे समए लोगं पडिसाहरति छट्टे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्टमे समए दंडं पडिसाहरति । वृ. 'अट्टे' त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, अन्तर्मौहूर्त्तिकं उदीरणावलिकायां कर्म्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्गातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानंकरोति लोकान्तप्राणिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाज्जीवप्रदेशा नामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्म्मकान् सङ्कोचयति, षष्ठे मन्थानमुपसंहरति, धनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च- ॥१॥ "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रोदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यानाहारको नियमाद् ॥” इति, वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाष्टसामयिकः केवलिनः समुद्घातो केवलिसमुद्घातो न शेष इति । अनन्तरं केवलिनां समुद्घातवक्तव्योतोक्ता, अथाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं ॥२॥ मू. (७९०) समणस्स णं भगवतो महावीरस्सं अट्ठ सया अनुत्तरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभद्दाणं उक्कोसिता अनुत्तरोववातितसंपया हुत्था १ । वृ. सुगमं, नवरं अनुत्तरेषु - विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गतिः- देवगतिलक्षणा कल्याणा येषां, एवं स्थितिरपि, तथा 3 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy