________________
४८०
स्थानाङ्ग सूत्रम् ८/-७८५ क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते।ईषप्राग्भारायाईषदिति वा नामरत्नप्रभाद्यपेक्षयाह्रस्वत्वात् तस्याः १ एवं प्राग्भारस्यह्रस्वत्वादीषप्राग्भारेतिवार अतएव तनुरितिवातन्वीत्यर्थः३अतितनुत्वात्तनुतनुरिति वा ४ सिद्धन्ति तस्यामिति सिद्धिरिति वा ५ सिद्धानामाश्रयत्वात् सिद्धालयइति वा ६ मुच्यन्ते सकलकर्मभिस्तस्यामिति मुक्तिरिति वा ७ मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयत आह
मू. (७८६) अट्टहिं ठाणेहिं संमं संघडितव्वं जतितत्वं परक्कमितव्वं अस्सिं च णं अड़े नो पमातेतव्वंभवति-असुयाणंधम्माणंसम्मंसुणणतातेअब्भुटेतव्वंभवति १ सुताणंधम्माणंओगिण्हणयाते उवधारणयाते अब्भुट्टेतव्वं भवति २ पावाणं कम्माणं संजमेणमकरणताते अब्भुट्टेयव्वं भवति ३ पोराणाणं कम्माणं तवसा विगिचणताते विसोहणताते अब्भुटेतव्वं भवइ ४।
असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्टेयव्वं भवति ६ गिलाणस्स अगिलाते वेयावच्चकरणताए अब्भुट्टेयव्वं भवति ७ साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्थ अनिस्सितोवस्सितो अपक्खग्गाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमंतुमा उवसामणताते अब्भुट्टेयव्वं भवति १०
वृ. 'अट्ठही'त्यादि, कण्ठ्यं, नवरं अष्टासुस्थानेषु-वस्तुषु सम्यग्धटितव्यं-अप्राप्तेषुयोगः कार्यः यतिततव्यं प्राप्तेषुतदवियोगार्थंयलः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपितत्पालने पराक्रमःउत्साहातिरेको विधेय इति, किं बहुना ?-एवं एतस्मिन्-अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यो भवति, अश्रुतानाम्-अनाकर्णितानां धर्माणां श्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायैवाऽभ्युत्थातव्यं-अभ्युपगन्तव्यं भवति १,एवं श्रुतानां-श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै-मनोविषयीकरणाय उपधारणतायै-अविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः २,
• 'विकिंचणयाए'त्ति विवेचना निर्जरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः-शोधना अकलङ्गत्वं तस्यै इति ३, असगृहीतस्य-अनाश्रितस्य परिजनस्य-शिष्यवर्गस्येति ४, ‘सेहं'ति विभक्तिपरिणामाच्छैक्षस्य-अभिनवप्रव्रजितस्य ‘आयारगोयरं'तिआचारः-साधुसमाचारस्तस्य गोचरो-विषयो व्रतषट्कादिराचारगोचरः अथवा आचारश्च-ज्ञानादिविषयः पञ्चधा गोचरश्चभिक्षाचर्येत्याचारगोचरं, इह विभक्तिपरिणामादाचारगोचरस्यग्रहणतायां-शिक्षणेशैक्षमाचारगोचरं ग्राहयितुमित्यर्थः ६,
अगिलाए'त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्यं प्रतीति शेषः ७, 'अधिगरणंसि'त्ति विरोधे, तत्र साधर्मिकेषु निश्रितंरागः उपाश्रितं-द्वेषः अथवा निश्रितं-आहारादिलिप्साउपाश्रितंशिष्यकुलाद्यपेक्षा तद्वर्जितो यः सोऽनिश्रितोपाश्रितः, न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः-प्राप्तो यः स तथा, स भवेदिति शेषः, तेन च तथाभूतेन कथं नु?
केन प्रकारेण साधर्मिकाः-साधवोऽल्पशब्दाः-विगतराटीमहाध्वनयः अल्पझंझाविगततथाविधविप्रकीर्णवचनाःअल्पतुमन्तुमाः-विगतक्रोधकृतमनोवकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युत्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिवद्धाटकमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org