SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, - ४७९ देवत्वं च तपश्चरणादिति तद्विशेषमाह मू. (७८२) अट्ठट्ठमियाणं भिक्खुपडिमाणं चउसट्ठीते राइदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अनुपालितावि भवति । वृ. 'अट्ठट्ठमिए' त्यादि, अष्टावष्टामानि दिनानि यस्यां सा तथा, या ह्यष्टाभिर्द्दिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवं द्वितीये द्वे एवमष्टमष्टौ ततो द्वे शते अष्टाशीत्यधिके भिक्षाणां सर्वाग्रतो भवत इति, 'अहासुत्ता' 'अहाकप्पा अहामग्गा अहातच्चा सम्मं काएण फासिया पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात् ६श्यं ‘अनुपालिय'त्ति आत्मसंयमानुकूलतया पालिता इति । मू. (७८३) अट्ठविधा संसारसमावन्नगा जीवा पं० तं०- पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अट्ठविधा सव्वजीवा पं० तं० - नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा २ अथवा अट्ठविधा सव्वजीवा पं० आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी सुतअन्नाणी विभंगनाणी ३ वृ. तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीवांश्च प्रतिपादयन् ‘अट्ठविहे’त्यादि सूत्रत्रयमाह, कण्ठ्यं चेदम्, नवरं प्रथमसमयनैरयिका नरकायुः प्रथमसमयोदयें इतरे त्वितरस्मिन् एवं सर्वेऽपि १. । मू. (७८४) अट्ठविधे संजमे पं० तं०- पढमसमयसुहुमसंपरागसरागसंजमे अपढमसमयसुहुमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमयउवसंतकसायवीतरायसंजमे अपढमसमयउवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीण० । वृ. अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीतिसम्बन्धात् संयमसूत्रं, तत्र 'संयमे' त्ति चारित्रं, स चेह तावद् द्विधा-सरागवीतरागभेदात्, तत्र सरागो द्विधा- सूक्ष्मबादरकषायभेदात्, पुनस्तौ प्रथमाप्रथमसमयभेदाद् द्विधा, एवं चतुर्द्धा सरागसंयम इति, तत्र प्रथमः समयः प्राप्तौ यस्य स तथा, सूक्ष्मः-किट्टकृतः सम्परायः कषायः सञ्जवलनलोभलक्षणो वेद्यमानो यस्मिन् स तथा, सह रागेण - अभिष्वङ्गलक्षणेन यः स सरागः स एव संयमः सरागस्य वा साधोः संयमो यः स तथा पश्चात्कर्मधारय इत्येकः, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अयं च द्विविधोऽपि श्रेणिद्वयापेक्षया पुनर्द्वैविध्यं लभमानोऽपि न विवक्षित इति चतुर्द्धा नोक्तः, तथा वादरा- अकिट्टीकृताः सम्परायाः सञ्जवलनक्रोधादयो यस्मिन् स तथा, वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधः, पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन चाष्टधेति । मू. (७८५) अट्ठ पुढवीओ पं० तं०- रयणप्पभा जाव अहे सत्तमा ईसिपव्भारा १ ईसीपभाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नत्ते २ ईसिपदभाराते णं पुढवीते अट्ठ नामधेज्जा पं० तं०-ईसिति वा ईसिपब्भाराति वा तनूति वा तनुतनूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३ । वृ. संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यं, नवरमष्टयोजनिकं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy