________________
स्थानं - ८,
४६७
मू. (७२४) अट्ठविधा तणवणस्सतिकातिया पं० तं०-मूले कंदे खंधे तया साले पवाले
पत्ते पुप्फे |
वृ. 'अट्ठविहे 'त्यादि, सुगमं, नवरं 'तणवणस्सइ' त्ति बादरवनस्पतिः, कन्दः - स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतं त्वक् छल्ली शाला शाखा प्रवालं - अङ्कुरः पत्रपुष्पे प्रतीते ।
मू. (७२५) चउरिंदिया णं जीवा असमारभमाणस्स अड्डविधे संजमे कज्जति, तं० - चक्खुमातो सोक्खातो अववरोवित्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति फासामएणं दुक्खेणं असंजोगेत्ता भवति । चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं० चक्खुमातो सोक्खाओ ववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासमातो सोक्खातो।
वृ. एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति । सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह -
मू. (७२६) अट्ठ सुहुमा सुहुमे पं० तं०-पाणसुहुमे १ पणगसुहुमे २ बीयसुहुमे ३ हरितसुहुमे ४ पुप्फसुहुमे ५ अंडसुहुमे ६ लेणसुहुमे ७ सिणेहसुहुमे ८ ।
वृ. 'अट्ठ सुहुमे' त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च तत्र प्राणसूक्ष्मं अनुद्धरिः कुन्थुः स हि चलन्नेव विभाव्यते न स्थित. सूक्ष्मत्वादिति १ पनकसूक्ष्म पनकः- उल्ली, स च प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र २,
तथा बीजसूक्ष्मं - शाल्यादिबीजस्य मुखमूले कणिकाः लोके या तुषमुखमित्युच्यते ३ हरितसूक्ष्मं अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्णं हरितमेवेति ४,
पुष्प-सूक्ष्मं वोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते ५ अण्डसूक्ष्मंमक्षिकाकीटिकागृहकोकिलाब्राह्मणीकृकलास्याद्यण्डकमिति ६,
लयनसूक्ष्मं लयनं-आश्रयः सत्त्वानां तच्च कीटिकानगरकादि, तत्पर कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवंतीति ७ स्नेहसूक्ष्ममवश्यायहिममहिकाकरकहरतनुरूपमिति ८ ।
मू. (७२७) भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाई अनुबद्धं सिद्धाइं जाव सव्वदुक्खप्पहीणाई, तं०- आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते !
वृ. अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह-'भरहस्से' त्यादि कण्ठ्यं, किन्तु 'पुरिसजुगाई' ति पुरुषा युगानीव कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि ‘अनुबद्धं' सन्ततं यावत्करणात् 'बुद्धाई मुक्काई परिनिव्वुडाई 'ति, एतेषां चादित्ययशःप्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि
॥१॥
"राया आइच्चजसे महाजसे अइबले अ बलभद्दे । बलविरियकत्तविरिए जलविरिए दंडविरिए य ।।"
इति इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भव्यत इति ।
मू. (७२८) पासस्स णं अरहओ पुरिसादानितस्स अट्ठ गणा अट्ठ गणहरा होत्था, तं०
सुभे असे वसिट्टे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org