________________
स्थानाङ्ग सूत्रम् ८/-/७२८ वृ. संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह-'पासे'त्यादि व्यक्तं, किंतु 'पुरिसादानीयस्स'त्ति पुरुषाणांमध्येआदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानांसाधूनांसमुदायाःगणधराः-तन्नायकाआचार्याःभगवतः सातिशयानन्तरशिष्याः,आवश्यके तूभयेऽपि दश श्रूयन्ते, “दस नवगं गणाण माणं जिणिंदाणं" इति वचनात् ‘वइया जस्स गणा तावइया गणहरा तस्से'ति वचनाच्च, तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, नचाटस्थानकानुरोधइह समाधनं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवभिधानादिति ॥ गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह
मू. (७२९)अट्ठविधेदंसणे पं० २०-सम्मइंसणे मिच्छदसणे सम्मामिच्छदसणे चक्खुदसणे जाव केवलदसणे सुविणदसणे।
वृ. 'अट्ठविहे दंसणे इत्यादि कण्ठ्यं, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति । सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह
मू. (७३०) अट्ठविधेअद्धोवमिते पं० तं०-पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अनागतद्धा सव्वद्धा।
वृ. 'अट्ठविहे अद्धोवमिए' इत्यादि सुगम, नवरंऔपम्यमुपमा पल्यसागररूपातप्रधाना अद्धा-कालोऽद्धौपम्यं राजदन्तादिदर्शनात्पल्येनोपमायत्रकाले परिमाणतःसपल्योपमं, रूढितो नपुंसकलिङ्गता, एवंसागरोपम, अवसर्पिण्यादीनांतुसागरोपमनिष्पन्नत्वादुपमाकालत्वंभावनीयं, समयादिस्तु शीर्षप्रहेलिकान्तः कालोऽनुमाकाल इति । कालाधिकारादिदमपरमाह
मू. (७३१) अरहतो णं अरिहनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते अंतमकासी।
वृ. 'अरहओ इत्यादि, जाव अट्ठमाउ'त्तिअष्टमं पुरुषयुगं-अष्टपुरुषकलं यावत् युगान्तकरभूमिः पुरुषलक्षणयुगापेक्षयाऽन्तरकराणांभवक्षयकारिणांभूमिः-कालःसाआसीदिति, इदमुक्तं भवति-नेमिनाथस्य शिष्यप्रशिष्यक्रमेणाष्टौ पुरुषान्यावन्निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते-'दुवास'त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति । तीर्थकरवक्तव्यताधिकारादिदमाह
मू. (७३२) समणेणं भगवता महावीरेण अट्टरायाणो मुंडे भवेत्ता अगारातो अनगारितं पव्वाविता, तं०-वीरंगय वीरजसे संजयएणिज्जते य रायरिसी । सेयसिवे उदायणे / तह संखे कासिवद्धणे
वृ.'समणेण मित्यादिसुगम, नवरं भवित्त'त्तिअन्तर्भूतकारितार्थत्वात्मुण्डान्भावयित्वेति दृश्यं, 'वीरंगए' इत्यादि 'तह संखे कासितवद्धणए' इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रव्राजितास्तथोच्यते, तत् वीराङ्गको वीरयशाः संजय इत्येते प्रतीताः, एणेयको गोत्रतः, स च केतकार्द्धजनपदश्वेतंबीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः,
तथा सेये आमलकल्पनानगर्याः स्वामी, यस्यां हि सूर्यकाभो देवः सौधर्मात् देवलोकाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org