SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४६६ स्थानाङ्ग सूत्रम् ८/-/७२१ उच्यते, नेत्याह- 'अट्ठट्ठाणे 'त्यादि व्याख्यातं प्राक्, नवरं यावत्करणात् 'अधम्मत्थिकायं २ आगासत्थिकायं ३ जीवमसरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सद्द ६ मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह च- 'एयाणी' त्यादि, सुगमं ॥ मू. (७२२) अट्ठ विधे आउवेदे पं० तं०- कुमारमिच्चे कायतिगिच्छा सालाती सल्लहता जंगोली भूतवेज्जा चार तंते रसातणे । वृ. यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेदमपि जानाति, सचायं - 'अट्ठविहे आउव्वेए' इत्यादि, आयुः-जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे विदन्ति वा लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः - चिकित्साशास्त्रं तदष्टविद्यं, तद्यथा - कुमाराणां - बालकानां भृतौ-पोषणे साधु कुमारभृत्यं, तद्वि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थं दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १ कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोफोमादप्रमेहकुष्ठादीनां शमनार्थमिति २, शलाकायाः कर्म शालक्यं तत्प्रतिपादकं तन्त्रं शालाक्यं, एतद्धि उर्द्धचक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति ३ शल्यस्य हत्या- हननमुद्धारः शल्यहत्या 'तत्प्रतिपादकं तन्त्रमपि शल्यहत्येत्युच्यतेत, तद्विधतृणकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखप्रायऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४, , 'जङ्गोली'ति विषविधाततन्त्रमगदतन्त्रमित्यर्थः तद्वित्त्सर्प्पकीटलूतादष्टविषनाशनार्थं विविधविषयसंयोगोपशमनार्थं चेति ५ भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म्मबलिकरणादिग्रहोपशमनार्थेति ६, ‘क्षारतन्त्र’मिति क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्धा अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रासादोपजनननिमित्तं प्रहर्षजननार्थमिति७ रसः - अमृतरसस्तस्यायनं प्राप्तिः रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च तत्प्रतिपादकं शास्त्रं रसायनतन्त्रमिति । कृतरसायनश्च देववन्निरुपक्रमारयुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह मू. (७२३) सक्कस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं० तं०-पउमा सिवा सती अंजु अमला अच्छरा नवमिया रोहिणी १ ईसाणस्स णं देविंदस्स देवरन्नो अट्टग्गमहिसीओ पं० तं०-कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता वसुंधरा २ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो अट्ठग्गमहिसीओ पं० ३ ईसाणस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं० - चंदे सूरे सुक्क बुहे बहस्सती अंगारे सनिचरे केऊ ५ । वृ. तत्र 'सक्कसे' त्यादि सूत्रपञ्चकं सुगमं, नवरं महाग्रहा-महार्थानर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुपधातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy