SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ स्थानं-८, ४५९ आदेयवचनता १ मधुरवचनता२ अनिश्रितवचनतामध्यस्थवचनतेत्यर्थः ३ असन्दिग्धवचनता चेति ४, वाचनासम्पच्चतुर्द्धा, तद्यथा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४, __ मतिसम्पच्चतुर्द्धा, अवग्रहहापायधारणाभेदादिति, प्रयोगसम्पच्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये १ पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः २ क्षेत्रपरिज्ञानं ३ वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि ४, सङ्ग्रहपरिज्ञा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञा-ज्ञानं नाम-अभिधानमष्टमीसम्पत, सा च चतुर्विधा, तद्यथा-बालादियोग्यक्षेत्रविषया १ पीठफलकादिविषया २ यथासमयं स्वाध्यायभिक्षादिविषया ३ यथोचितविनयविषया चेति ४ ॥ आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह - मू. (७०७) एगमेगेणं महानिहीअट्टचक्कवालपतिहाणे अट्ठजोयणाई उडं उच्चत्तेणंपन्नत्ते वृ. “एके'त्यादि, एकैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रप्रतिष्ठितः, मञ्जूषावत्, तत्स्वरूपं चेदम्॥१॥ . "नवजोयणविचछिन्न बारसदीहा समूसिया अट्ठ। जक्खसहस्सपरिवुडा चक्कट्ठपइट्ठिया नववि ॥" द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह- . मू. (७०८) अट्ठसमितीतोपं०२०-ईरियासमितिभासासमिति एसणा० आयाणमंडमत्त० उच्चारपासवण० मणस० वइस० कायसमिती। वृ. 'अट्ठसमिई’त्यादि, सम्यगितिः-प्रवृत्तिः समितिः, ईर्यायां गमने समितिश्चक्षुव्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः एषणायामुद्गमादिदोषवर्जनत्ः, आदानेग्रहणेभाण्डमात्रायः-उपकरणमात्राया भाण्डस्यवा-वस्त्राद्युपकरणस्यमृन्मयादिपात्रस्य वामात्रस्य च-साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिङ्घानजल्लानांपारिष्ठापनिकायांसमितिः स्थण्डिलविशुध्यादिक्रमेण, खेलो-निष्ठीवनं सिंघानो-नासिकाश्लेष्मेति, मनसः कुशलतायां समितिः वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति॥ __ समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधोः प्रायश्चित्तस्य च स्वरूपाभिधानय सूत्रत्रयमाह - मू. (७०९) अट्ठहिं ठाणेहिं संपन्नेअनगारे अरिहति आलोतणा पडिच्छित्तए, तं०-आतारवं आहारवं ववहारवंओवीलए पकुव्वते अपरिस्साती निजावते अवातदंसी। अट्ठहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसमालोइत्तते, तं० - जातिसंपन्ने कुलसंपन्ने विनयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरित्तसंपन्ने खंते दंते। वृ. 'अठ्ठही'त्यादि सुगम, नवरं आयारवं'तिज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनाभ्यां, Jain Education International For Private & Personal Use Only WW www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy