________________
४५८
स्थानाङ्ग सूत्रम् ८/-/७०२
विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाद्याहारभेदयुक्ततयाप्रचुरेभक्तपाने येषुतानितथा, 'बहुदासीदासगोमहिसगवेलयप्पभूयाई बहवोदासीदासा येषुतानि तथा गावो महिष्यश्च प्रतीताः गवेलका-उरभ्रास्ते प्रभूताः-येषु तानि तथा पश्चात्कर्मधारयः, अथवा बहवो दास्यादयः प्रभूता जाता येषुतानि तथा, बहुजनस्याप्यरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा षष्ठी, ततो बहुजनेनापरिभूतानि-अतिरस्कृतानि 'अज्जउत्ते'त्ति आर्ययोः-अपापकर्मवतोः पित्रोः पुत्रो यः स तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्तः॥
कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाह --
मू. (७०३) अट्ठविहे संवरे पं० तं०-सोइंदियसंवरेजाव फासिंदियसंवरे मनसंवरे वतिसंवरे कायसंवरे, अट्ठविहे असंवरे पं० तं० - सोतिंदिअअसंवरे जाव कायअसंवरे ।
वृ. 'अट्ठविहे'त्यादि सूत्रद्वयं कण्ठ्यं, अनन्तरं कायसंवर उक्तः, मू. (७०४) अट्ठ फासा पं० - कक्कडे मउते गरुते लहुते सीते उसिणे निद्धे लुक्खे।
वृ. कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं, कण्ठ्यं चेति, स्पर्शाश्चाष्टावेवेति लोकस्थितिरियमितो लोकस्थितिविशेषमाह -
मू. (७०५) अट्ठविधा लोगठिती पं० तं० - आगसपतिहित वाते १ वातपतिहिते उदही २ एवं जघा छट्ठाणे जाव जीवा कम्मपतिहिता अजीवा जीवसंगहीता जीवा कम्मसंगहीता।
वृ. 'अट्ठविहे' त्यादि, कण्ठ्यं, ‘एवं जहा छट्ठाणे' इत्यादि, तत्र चैवं-दधिपइट्ठिया पुहवी, घनोदधावित्यर्थः ३ पुढविपइट्ठिया तसा थावरापाणा मनुष्यादयइत्यर्थः ४ अजीवाजीवपइट्ठिया, शरीरादिपुद्गलाइत्यर्थः ५जीवा कम्मपइट्ठियाकर्मवशवर्तित्वादिति ६अजीवाः पुद्गलाकाशादयो जीवैः सङ्ग्रहीताः-स्वीकृताः अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७ जीवाः कर्मभिःज्ञानावरणादिभिः सङ्ग्रहीताबद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः॥
इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाह
मू. (७०६) अट्ठविहा गणिसंपता पं० - आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ वातणासंपता ५ मतिसंपता ६ पतोगसंपता ७ संगहपरिण्णानाम अट्ठमा ८।
वृ. 'अट्ठविहा गणिसंपये'त्यादि गणः-समुदायो भूयानतिशयवान् वा गुणानांसाधूनां वा यस्वास्ति सगणी-आचार्यस्तस्यसम्पत्-समृद्धिर्भावरूपागणिसम्पत् तत्राचरणमाचारः-अनुष्ठानं स एव सम्पत्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिः आचारसम्पत्, सा च चतुर्धा, तद्यथासंयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १ असंप्रग्रहः आत्मनो जात्याधुत्सेकरूपग्राहवर्जनमिति भावः २।
अनियतवृत्तिःअनियतविहार इतियोऽर्थः ३वृद्धशीलतावपुर्मनसोनिर्विकारतेतियावत्४,
एवं श्रुतसम्पत्, साऽपिचतुर्द्धा, तद्यथा-बहुश्रुततायुगप्रधानागमतेत्यर्थः १ परिचितसूत्रता विचित्रसूत्रता स्वसमयादिभेदात् ३ घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति ४,
शरीरसम्पच्चतुर्द्धा तद्यथा-आरोहपरिणाहयुक्ता उचितदैर्घ्यविस्तरतेत्यर्थः १ अनवत्रपता अलज्जनीयाङ्गतेत्यर्थः २ परिपूर्णेन्द्रियता ३ स्थिरसंहननता चेति ४, वचनसम्पच्चतुर्द्धा, तद्यथा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only