________________
स्थानाङ्ग सूत्रम् १/-/५१ परम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा एव व्याख्यातव्याः द्यादिसमयसिद्धास्तु यथाश्रुता एवेति । इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यतेपूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति-परमाणवो निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहस्तेषां एवंकरणात् 'दुपएसियाणं खंधाणं तिचउपंचछसत्तट्ठनवदससंखेज्जपएसियाणं असंखेज्जपएसियाण' मिति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते -
'एगा एगपएसे त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढा :- अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्वादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त इति, 'जाव एगा असंखेज्जपएसोगाढाणं' ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानां, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्घयेप्रदेशत्वादिति, कालत आह
'एगा एगसमए' त्यादि, एकं समयं यावत् स्थितिः परमाणुत्वादिना एक प्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमयस्थितेः पुद्गलानामभावाद् असङ्खेज्जसमयद्वितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषा ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिरभवतीति भावस्तेषाम्, एवं सर्वाण्यपि भावसूत्राणि षष्टयधइकाद्विशतप्रमाणानि वाच्यानि २६०, विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणानादिति. साम्प्रतं भङ्ग्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वामाह'एगा जहन्नप्पएसियाण' मित्यादि, जघन्याः सर्वाल्पाः प्रदेशाः परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, द्व्यणुकादय इत्यर्थः, स्कन्धाः - अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षा:उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ता प्रदेशाः - अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः तेषां, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम, एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्षशब्दयपदेशस्यत्वादेकवर्गणात्वमिति
४२
'जहन्नोगाहणगाणं' ति अवगाहन्ते आसते यस्यां साऽवगाहना- क्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाज्जधन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्घयेयासङ्घयेयप्रदेशावगाढानामित्यर्थः । जघन्या- जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः, तेषां उत्कर्षा- उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यं, जघन्येन- जघन्यसङ्ख्याविशेषेणैकेनेत्यर्थः गुणो-गुणनं ताडनं यस्य स तथाविधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यं, एवं भावसूत्राण्यपि षष्टिर्भावनीयानीति ॥ सामान्यस्कन्धवर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य
स्कन्धविशेषस्यैकत्वामाह
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org