________________
स्थानं १, - उद्देशक:
इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत् तेषां ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् ४, तथा स्वयम् - आत्मना बुद्धाः तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैकं किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ६, स्वयम्बुद्धप्रत्येकबुद्धानांच बोध्युपधिशअरुतलिङ्गकृतो विशेषः, तथाहि स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव वोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिर्द्वादशविधः, तद्यथा
119 11
-
४१
'पत्तं १ पत्ताबंधो २ पायठवणं ३ च पायकेसरिया ४ | पडलाइ ५ रत्ताणं च ६ गोच्छओ ७ पायनिज्जोगो ॥'
तिन्नेव य पच्छागा १० रयहरणं, ११ चेव होइ मुहपोत्ति १२ ॥ त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः प्रत्येकबुद्धानां तु नियमतेः भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धा नामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीति । बुद्धबोधिताः- आचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धास्तेषां ७, एतेषामेव स्त्रीलिङ्गसिद्धानां ८ पुंल्लिङ्गसिद्धानां ९ नपुंसकलिङ्गिसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां १२ गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां १३ एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां १४ अनेकसिद्धानामेकसमये द्व्यादीनां अष्टशतान्तानां सिद्धानामेका वर्गणेति १५ । तत्रानेकसमयसिद्धानां प्ररूपणा गाथा119 11 'बत्तीसा अडयाला सठ्ठी बावत्तरी य बोद्धव्वा ।
Jain Education International
चुलसीई छन्नउई दुरहिय अट्ठोत्तर सयं च ॥"
एतद्विवरणं यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान् यावत् द्वात्रिंशत् सिध्यन्ति, तत ऊर्ध्वमवश्यमेवान्तरं भवतीति, यदा पुनस्त्रयस्त्रिँशदारभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिद्धयन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्धयन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादि कृत्वा यावत् षष्टिरेकसमयेन सिद्धयन्ति तदा निरन्तरं षट् समयान् सिद्धयन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमत्यत्रापि योज्यम्, यावत् अष्टशतमेकसमयेन यदा सिद्धयति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते - अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि ।
एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तमिदानीं परम्परसिद्धानामुच्यते, तत्र 'अपढमसमयसिद्धाण' मित्यादित्रयोदशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्त्तिनः तेषामेवं 'जाव' त्तिकरणाद् 'दुसमयसिद्धाणं तिचउपंचछसत्तट्ठनवदस संखेज्जासंखेज्जसमयसिद्धाण' मिति दृश्यं, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् 'पढमसमयसिद्धाणं' ति पाठः, तत्र अनन्तर
For Private & Personal Use Only
www.jainelibrary.org