________________
४०
स्थानाङ्ग सूत्रम् १/-/५१
अयमेव भव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे त्यादि, 'एव'मिति कृष्णलेश्यायामिव 'छसुवि' त्ति कृष्णया सह षट्सु, अन्यथा अन्या पञ्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा 'एगा नीललेसाणं भवसिद्धियाणं वग्गणे' त्यादि ६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, 'एगा कण्हलेसाणं सम्मद्दिट्ठियाण' मित्यादि, 'जेसिं जइ दिट्ठीओ'त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यकत्वाद्यास्तेषां ता वाच्या इति, तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यकत्वमिथ्यात्वे, शेषाणां तिस्रोऽपि द्दष्टय इति ७, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेसाणं कण्हपक्खियाण'मित्यादि, एते 'अट्ठ चउवीस दंडय'त्ति, एते चैवं
119 11
ओहो १ भव्वाईहिं विसेसिओ २ दंसणेहि ३ पक्खेहिं ४ । साहिं ५ भव्व ६ दंसण ७ पक्खेहिं ८ विसिट्ठ लेसाहिं ति ।।
इतः सिद्धवर्गणा अभिधीयते, तत्र सिद्धा द्विधा- अनन्तरसिद्धपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह-'एगा तित्थे' त्यादिना, तत्र तीर्यतेऽनेनेति तीर्थं, द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्घो, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, 119 11 (आह च - ) "जं नाणदंसणचरित्तभावओ तव्विवक्खभावाओ ।
भवभावओ य तारेइ तेणं तं भावओ तित्थं ।” ति,
त्रिषु वा क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्म्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं आह च
-
॥१॥
“दाहोवसमादिसु वा जं तिसु थियमहव दंसणाईसुं । तो तित्थं सङ्घ च्चिय उभयं च विसेसणविसेसं ॥" ति, 'विशेषणविशेष्य' मिति तीर्थं सङ्घ इति सङ्घो वा तीर्थमति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः फलानि यस्य तत् त्र्यर्थं, तित्यंति पूर्ववत्, आह च“कोहग्गिदाहसमणादओ व ते चेव तिनि जस्सऽत्था । होइ तियत्थं तित्यं तमत्थसद्दो फलत्थोऽयं ॥ "
-
119 11
-
अथवा त्रयो ज्ञानादयोऽर्थाः वस्तूनि यस्य तत्यर्थम्, आह च“अहवा सम्मद्दंसणनाणचरित्ताइं तिन्नि जस्सऽत्था । तं तित्थं पुव्वोदियमिहमत्थो वत्थुपज्जाओ ।" त्ति
119 11
तत्र तीर्थे सति सिद्धाः-निर्वृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत् तेषां वर्गणेति १, तथा अतीर्थे तीर्थान्तरे साधुन्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषा २, एवंकरणात् 'एगा तित्थगरसिद्धाणं वग्गणे' त्यादि दृश्यं, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः, आह च“अनुलोमहेउतस्सीलयाय जे भावतित्थमेयं, तु । कुव्वंति पगासंति उते तित्थगरा हियत्थकरा ।। "
-
119 11
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org