SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्थानं-१,- उद्देशकः “एगा कण्हलेसाण'मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह-“श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः" तथा ॥१॥ "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायंलेश्याशब्दः प्रयुज्यते" इति, इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तंप्रज्ञापनावृत्तिकृता-“योगपरिणामोलेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्व च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्ये'ति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्- “कर्म हि कार्मणस्य कारणमन्येषां च शरीराणा"मिति," तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात्जीवव्यापारोयः सवाग्योगः २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारोयः समनोयोग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति, अन्ये तुव्याचक्षते- 'कर्मनिस्यन्दो लेश्ये'ति, साच द्रव्यभावभेदाद्विधा, तत्रद्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तुतज्जन्योजीवपरिणामइति, इयंचषट्प्रकाराजम्बूफलखादकपुरुषषट्कद्दष्टान्ताद् ग्रामघातकचौरपुरुषषट्कद्दष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरंकृष्णवर्णद्रव्यसाचिव्यात्जाताऽशुभपरिणामरूपा कृष्णासा लेश्या येषां तेतथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपैवमिति-अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण'मित्यादि सूत्रत्रयं दृश्य, तत्र कपोतस्य-पक्षिविशेषस्य वर्णेनतुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याजाता कातलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेजःअग्निज्वालातद्वर्णानियानिद्रव्याणिलोहितानीत्यर्थः, तत्साचिव्याजातातेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासांचविशेषतः स्वपूपं लेश्याध्ययनादवसेयमिति, ‘एवं जस्स जइत्ति नारकाणामिव यस्यासुरादेर्या यान्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यं, 'भवणे'त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङग्रहणी॥१॥ “काऊ नीला किण्हा लेसाओ तिनि होति नरएसुं। तइयाए काउनीला नीला किण्हा य रिट्ठाए ॥२॥ किण्हा नीला काऊ तेऊलेसा य भवनवंतरिया । जोइससोहमीसाणं तेउलेसा मुणेयव्वा कप्पे सणंकुमारे माहिदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसा उ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गब्मयतिरियनरेसुंछल्लेसातिन्नि सेसाणं" अयं सामान्यो लेश्यादण्डकः ५। ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy