________________
३८
स्थानाङ्ग सूत्रम् १/-/५१
॥१॥ 'दव्वाइत्ते तुल्ले जीवनभाणं सभावओ भेदो।
जीवाजीवाइगओ जह तह भव्वेयरविसेसा" त्ति, आभ्यां विशषितोऽन्यो दण्डकः २
‘एगा सम्मद्दिट्ठियाणं'मित्यादि, सम्यग्-अविपरीता दृष्टिः-दर्शनं रुचिस्तत्त्वानि प्रति येषां तेसम्यग्दृष्टिकाः, तेचमिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्योभवन्ति, तथामिथ्या-विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती टि:-दर्शनं श्रद्धानं येषां ते मिथ्याष्टिकाः-मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च॥१॥ “सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः।
मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् " इति । तथा सम्यक् मिथ्या च धष्टिर्येषां ते सम्यग्मिथ्याईटिकाः-जिनोक्तभावान् प्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्ती जन्तुरनाभोगनिर्वर्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन संपादितान्तः-सागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्त्तकालप्रमाणमन्तरकरणंकरोति, तस्मिन्कृतेतस्य कर्मणःस्थितिद्वयं भवति, अनन्तरकरणादधस्तनी प्रथमस्थितिरन्तुर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्याष्टिः, अन्तर्मुहूर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यकत्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात्, यथा हि दवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायतीति, तदेवं सम्यकत्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवति
अशुद्धमर्धविशुद्धं विशुद्धं चेति, त्रयाणां तेषांपुञ्जानांमध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदातदुदयवशादर्द्धविशुद्धमर्हव एतत्वश्रद्धानं भवति जीवस्य, तेनतदाऽसौसम्यग्मिथ्याष्टिर्भवति अन्तर्मुहूत्त्व यावत्, ततऊर्ध्वंसम्यकत्वपुलं मिथ्यात्वपुअंवा गच्छतीति, सम्यग्दृष्टिमिथ्याष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तम्‘एवंजाव थणिए' त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषांतेनैव व्यपदेशः, उक्तञ्च-‘चोद्दस तस सेसया मिच्छत्ति चतुर्दशगुणस्थानकवन्तस्त्रसाः स्थावरास्तु मिथ्याद्दष्टय एवेत्यर्थः।
द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्मावात्, ततस्तेषु सम्यग्दृष्टिमिथ्याद्दष्टितयैव व्यपदेशः, एवं 'तेइंदियाणवि चउरिंदियाणवि'त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम,पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्व्यपदेशः, अत एवोक्तम्'सेसा जहा नेरइय'त्ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् ‘एगा सम्मद्दिट्ठियाणं वेमाणियाणंवग्गणा, एवं मिच्छद्दिट्ठियाणं, एवंसम्मामिच्छादिट्ठियाणं, एतत्पर्यन्तमाह-जावएगा सम्मामिच्छेत्यादि ३ । “एगा कण्हपक्खियाणं' इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं॥१॥ "जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो।
ते सुक्क पक्खिया खलु अहिए पुण किण्हपक्खीआ" इति, एतद्विशेषितोऽन्यो दण्डकः ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org