________________
४४४
स्थानाङ्ग सूत्रम् ७/-/६८६
__'पसत्थमणे'त्यादि, सूत्रसप्तकं सुगम, नवरं प्रशस्तः-शुभो मनसो विनयनं विनयः प्रवर्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापकः-शुभचिन्तारूपः असावद्यः-चौर्यादिगर्हितकर्मानालम्बनः अक्रियः-कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेशः-शोकादिबाधावर्जितः 'स्नु प्रश्रवण' इति वचनात् आस्नवः-आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तन्निषेधानास्नक्करः-प्राणातिपाताद्याश्रवणववर्जित इत्यर्थः, अक्षयिकरः-प्राणिनांनक्षयेः-व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो-नभूतान्यभिशन्ते-बिभ्यति यस्मात्सतथा, अभयङ्कर इत्यर्थः, एतेषां च प्रायः सहशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि। .
__ आयुक्तं गमनं आयुक्तस्य-उपयुक्तस्य सँल्लीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानंऊध्धर्वस्थानं कायोत्सर्गादि 'निसीयणं'ति निषदनं-उपवेशनं 'तुयट्टणं' शयनं 'उल्लङ्घनं' डेवनं देहल्यादेः प्रलङ्गन-अर्गलादेः सर्वेषामिन्द्रियाणांयोगा-व्यापाराः सर्वेवायेइन्द्रिययोगास्तेषांयोजनताकरणं सर्वेन्द्रिययोगयोजनता । 'अब्भासवत्तियं' ति प्रत्यासत्तिवर्तित्वं, श्रुताद्यर्थिना हि आचार्यादिसमीपेआसितव्यमित्यर्थः, 'परच्चंदाणुवत्तियन्तिपराभिप्रायानुवर्तित्वं, 'कजहेउंति कार्यहतोः, अयमर्थः-कार्य-श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थो, विशेषेण विनये तस्य वर्तितव्यं तदनुष्ठानं च कर्तव्यमिति, तथा 'कृतप्रतिकृतिता'कृते भक्तादिनोपचारे प्रसन्ना गुरवःप्रतिकृति-प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्यदुःखार्तस्य गवेषणं औषधादेरित्यार्त्तगवेषणं तदेवार्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा भूत्वा गवेषणं-सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता-अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता-आनुकूल्यमिति।
विनयात्कर्मघातो भवति, सच समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह
मू. (६८७) सत्त समुग्घाता पं० २०-वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेउब्वियसमुग्धाते तेजससमुग्धाए आहारगसमुग्धाते केवलिसमुग्धाते, मणुस्साणं सत्त समुग्धाता पं० एवं चेव।
वृ. 'सत्त समुग्धाए'त्यादि, 'हन् हिंसागत्योः' हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च घातो-निर्जरा समुदघातः, कस्य केन सहैकीभावगमनं?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मावेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन धातः कथं ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः,
उक्तंच- "पुवकयकम्मसाडणंतु निजरा" इति सच वेदनादिभेदेन सप्तधा भवतीत्याहसप्त समुद्घाताःप्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वैद्यकश्रियः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, केवलिसमुद्घातस्तु सदसद्वेद्यशुभाशुभनामोचनीयचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only