SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ स्थानं - ७, - तुअट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सव्विंदितजोगजुंजणता, अपसत्थकातविनते सत्तविधे पं० तं०-अनाउत्तं गमणं जाव अनाउत्तं सव्विंदितजोगजुंजणता । लोगोवतारविनते सत्तविधे पं० तं० - अब्भासवत्तितं परच्छंदानुवत्तितं कज्जहेउं कतपडिकितिता अत्तगवेसणता देसकालन्नुता सव्वत्थेसु यापडिलोमता । व. एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह- 'सत्तविहे' त्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तस्तद्यथाज्ञानं - आभिनिबोधिकादि पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो-भक्त्यादिकरणं ज्ञानविनयः, उक्तं च - 119 11 “भत्ती १ तह बहुमाणो २ तद्दिट्ठत्थाण संम भावणया ३ । विहिगण ४ मासोऽविय ५ एसो विनओ जिणाभिहिओ ॥” दर्शनं-सम्यकत्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, उक्तं च 119 11 ४४३ “सुस्सूसणा अनासायणा य विनओ दंसणे दुविहो । दंसणगुणाहिए कज्जइ सुस्सूसणाविनओ ॥ 'सक्कार १ भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य । आसणमनुप्पयाणं ५ कीकम्मं ६ अंजलिगहो य ७ ।। इंतस्सऽ गच्चणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंतावणं १० एसो सुस्सूसणाविनओ ॥ ३ ॥” इति, ॥३॥ इह च सत्कारः-स्तवनवन्दनादि अभ्युत्थानं विनयार्हस्य दर्शनादेवासनत्यजनं सन्मानोवस्त्रापात्रादिपूजनं आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशतात्रेति भणनं आसनानुप्रदानं तु-आसनस्य स्थानात्स्थानान्तरसञ्चारणं कृतिकर्म्म- द्वादशावर्त्तवन्दकं, शेषं प्रकटमिति । उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधः, आह च ॥ १ ॥ " तित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥" साम्भोगिका-एकसामाचारीकाः क्रिया- आस्तिकता, अत्र भावनातीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्म्मस्यानाशातनायां वर्त्तितव्यमित्येवं सर्वत्र द्रष्टव्यमिति “सामाइयादिचरणस्स सद्दहणया १ तहेव काएणं । ॥१॥ ॥२॥ संफासणं २ परुवण ३ मह पुरओ भव्वसत्ताणं ॥” इति, -मनोवाक्कायविनयास्तु मनःप्रभृतीनां विनयार्हेषु कुशलप्रवृत्त्यादिः, उक्तं च“मणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तहय ॥” लोकानामुपचारो - व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः । मनोवाक्कायविनयान् प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनंय च सप्तधैवाह Jain Education International For Private & Personal Use Only 119 11 www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy