________________
स्थानं - ७,
तसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्घयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यथोक्तम्
"वेउव्वियसमुग्धाएणं समोहन्नइ समोहणित्ता संखेज्जाई जोयणाई दंड निसरइ २ त्ता अहाबायरे पुग्गले परिसाडेइ "त्ति,
४४५
एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्म्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह- 'मणुस्साणं सत्ते' त्यादि, 'एवं चेव' त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति ।
एतच्च समुद्घातादिकं जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह -
मू. (६८८) समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पं०, तं०बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता हुत्था, तं० - जमालि तीसगुत्ते आसाढे आसमित्ते गंगे छलुए गोट्ठामाहिले, एतेसिणं सत्तण्डं पवयणनिण्हगाणं सत्तुप्पत्तिनगरा होत्था, (तं० ) -
वृ. 'समणे' त्यादि कण्ठ्यं, नवरं प्रवचनं- आगमं निहनुवते - अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिह्नवाः प्रज्ञप्ता जिनैः, तत्र 'बहुरय'त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रताः सक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः अथवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयं, तथा अव्यक्तं- अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना, तथा समुच्छेदः - प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो- विनाशः समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः, तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा क्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिणइत्यर्थः, तथा जीवाजीवनोजीवभेदायो राशयः समाहतस्त्रिशिशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्म्म न स्कन्धबन्धवबद्धमबद्धं तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयं,
‘धम्मायरिय’त्ति धर्म्मः-उक्तप्ररूपणादिलक्षणः श्रुतधर्म्मस्तठप्रधानाः प्रनायकत्वेनाचार्या धर्म्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो, यो हि श्रमणस्य भगवतो महावीरस्य भागिनेयो भगवद्दुहितुः सुदर्शनाभिधानाया भर्त्ता पुरुषपञ्चशतीपरिवारो भगवन्प्रव्राजित आचार्यत्वं प्राप्तःश्रावस्त्यां नगर्यां तेन्दुके चैत्ये विहरन्ननुचिताहारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्टसंस्तारकसंस्तरणः कृतः संस्तारकः ? इतिविहितपरिप्रश्नः " संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्त- प्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्दिः प्ररूपयामास-यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org