________________
४३६
स्थानाङ्ग सूत्रम् ७/-/६६१ तथा श्रावस्त्यां रुक्मिराजः सुबाह्वभिधानायाः स्वदुहितुश्चातुर्मासिकमज्जनमहोत्सवे नगरीचतुष्पथनिवेशितमहामण्डपे विभूत्यामज्जिता तांतत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतां अङ्केनिवेश्यतल्लावण्यमवलोकयन् व्याजहार, यदुतभोवर्षधर दृष्टईदशोऽन्यस्याः कस्याश्चिदपि कन्यायाः मज्जनकमहोत्सवः?,सोऽवोचद्-देव! विदेहवरराजकन्यासत्कमज्जनोत्सवापेक्षयाअयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति ३ । तथा अन्यदा मल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजधटे, तत्सट्टनार्थकुम्भकेन सुवर्णकाराः समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिताः, बाणारस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेनकेन कारणेन कुम्भेन निष्काशिता यूयं?, तेऽभिदधुः "-मल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धाना-शकनेनेति, ततः कीशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहिणोत्४। ... तथा कदाचिन्मल्लया मल्लदिन्नाभिधानोऽनुजो भ्राता सभां चित्रकश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशेषवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गुष्ठमुपलभ्य तदनुसारेण मल्लिसशमिव तद्रूपंनिर्वर्तितं, ततश्च मल्लदिन्नकुमारःसान्तःपुरश्चित्रसभायांप्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूतायाअहमग्रतोऽविनयेनायात इति भावयन्परमव्रीडांजगाम, ततस्तद्धात्री चित्रमिदमिति न्यवेदयत्, ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान्, चित्रकरश्रेणी तु तंततो मोचयामास, तथापि कुमारः सन्दशकं छेदयित्वातं निर्विषयमादिदेश, सच हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति ५।
तथा कदाचिच्चोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तांचदानधर्मच शौचधर्म चौद्ग्राहयन्तीं मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती कुपिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना-चोक्षे ! बहुत्र त्वं संचरस्यतोऽद्राक्षीः काञ्चित्क्वचिदस्मदन्तः पुरपुरन्ध्रीसशी ?, सा व्याजहार-विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यचादिभिर्गुणैर्न वर्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६।
एवमेते षडपि दूताः कुम्भकं कन्यां याचितवन्तः, स च तानपद्वारेण निष्काशितवान्, दूतवचनाकर्णनाज्जातकोपाः षडपि अविक्षेपेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च तानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थै, आयातेषु तेषु लग्नमायोधनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिन शितशरशतजर्जरितजयकुञ्जरमतिखरक्षुरुप्रप्रहारोपप्लुतवाजिविसरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितचक्रिच क्रमुल्लूनच्छत्रपतत्पताकंकान्दिशीककातरंकुम्भकसैन्यं भङ्गमगमत्, ततोऽसौनिवृत्त्यरोधकसज्जः सन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसंजनकमवलोक्य मल्ली समाश्वासयन्ती समादिदेश.।
यदुत-भवते दीयते कन्येत्वेवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः षडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मल्लिप्रतिमामवलोक्य चते सेयंमल्लीतिमन्यमानास्तद्रूपयौवनलावण्येषुमूर्छिता निर्निमेषदृष्टयातामेवावलोकयन्तस्तिष्ठन्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org