SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ स्थानं - ७, ४३५ मल्ली विदेहरायवरकन्नगा १ पडिबुद्धी इक्खागराया २ चंदच्छाये अंगराय । ३ रुप्पी कुणा-लाधिपती ४ संखे कासीराया अदीनसत्तू कुरुराता ६ जितसत्तू पंचालराया ७ वृ. 'मल्ली ण 'मित्यादि, मल्लिरर्हन् 'अप्पसत्तमे’त्ति आत्मना सप्तमः सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावात्मसप्तमो, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देशः, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराजः साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाघिपतिः श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेश नाथः हस्तिनागपुरवास्तव्यः ६, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति ७ 1 आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगममापेक्षयाऽवगन्तव्यं, यतः प्रव्रजितेन तेन ते प्रव्राजिताः, तथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्च स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः परिव्रजत इति तेषु श्रूयत इति, उक्तं च- "पासो मल्ली यतिहिं तिहिं सएहिं" ति, एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति, इत्थं चैतञ्चरितं मल्लिज्ञाताध्ययने श्रूयते जम्बूद्वीपेऽपरविदेहे सलिलावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानो राजा षड्भिर्बालवयस्यैः सह प्रव्रज्यां प्रतिपेदे, तत्र महाबलस्तैर्यवस्यानगारैरुचे-यद्भवांस्तपस्तपस्यति तद्वयमपीत्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादि व्यधासीद्, एवं च स्त्रीनामगोत्रकर्मासौ बबन्ध अर्हदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थकरनामेति, ततस्ते जीवितक्षयाज्जयन्ताभिधानविमाने अनुत्तरसुरत्वेनोत्पेदिरे, ततश्च्युत्वा महाबलो विदेहेषु जनपदेषु मिथिलायां राजधान्या कुम्भकराजस्य प्रभावत्या देव्यास्तीर्थकरीत्वेन समजनि, मल्लिरिति नाम च पितरौ चक्रतुः, तदन्ये तु यथोक्तेषु साकेतादिषु सञ्जज्ञिरे, ततो मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थं च गृहोपवने षङ्गर्भगृहोपेतं तन्मध्यभागे च कनकमयींशुषिरां मस्तकच्छिद्रां पद्मपिधानां स्वप्रतिमां कारयामास तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेपयामास, इतश्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारिते नागयज्ञे 'जलजादिभास्वरपञ्चवर्ण- कुसुमनिर्मितं श्रीदामगण्डकं दृष्टवा अहोऽपूर्वभक्तिकं इदमिति विस्मयादमात्यमुवाच ध्ष्टं क्वापीध्मीदशमितिसोऽवोचत्-मल्लिविदेहवरराजकन्यासत्कश्रीदागण्डापेक्षयेदं लक्षांशेऽपि शोभया न वर्त्तते, ततो राज्ञाऽवाचि-सा पुनः कीदृशी ?, अन्या नास्ति ताशीत्युपश्रुत्य सञ्जातानुरागोऽसौ मल्लिवरणार्थं दूतं विससर्ज १ । , मन्त्री जगाद तथा चम्पायां चन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति पप्रच्छ, यदुतयूयं बहुशः समुद्रं लङ्घयथ, तत्र च किञ्चिदाश्चर्यमपश्यत् ?, सोऽवोचत्-स्वामिन्नस्यां यात्रायां समुद्रमध्येऽस्माकं धर्मचालनार्थं देवः कश्चिदुपसर्गं चकार, अविचलनेचास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदायि, तदेकं कुम्भकस्य अस्माभिरुपनिन्ये, तेनापि मल्लिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाश्चर्यभूता दृष्टा, इति श्रुत्वा तथैव दूतं प्रेषयामास २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy