________________
स्थानं -७, -
४३७
स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानंचापससार, ततस्तस्या गन्धःसादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकां पिदधुः पराङ्मुखाश्च तस्थुः, मल्लीचतानेवमवादीत्-किन्नु भो भोभूपा! यूयमेवंपिहितनासिकाः पराङ्मुखीभूताः?,तेऊचुः-गन्धेनाभिभूतत्वात्, पुनःसाऽवोचत्यदि भो देवानां प्रियाः ! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवर्तते कीदृशःपुनरस्यौदारिकस्य शरीरस्यखेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्यशटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?,ततो मा यूयं मानुष्यककामेषु सजत, किंच॥१॥ “किं थ तयं पम्हुटुं जंथ तया भो जयंतपवरंमि ।
वुच्छा समयनिबद्धं देवा ! तं संभरह जाइं॥" इति भणिते सर्वेषामुत्पन्नं जातिस्मरणं, अथमल्लिरवादीत् अहंभोः ! संसारभयात्प्रव्रजिष्यामि, यूयं किं करिष्यथ?, ते ऊचुः-वयमप्येवं, ततो मल्लिरवोचत्-यद्येवं ततो गच्छत स्वनगरेषुस्थापयत पुत्रान् राज्येषु यततः प्रादुर्भवत ममान्तिकमिति, तेऽपितथैवप्रतिपेदिरे, ततस्तान्मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्य तान्पादयोः पातयामास, कुम्भकराजोऽपितान्महताप्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानान्तरं पोषशुद्धैकादश्यामष्टमभक्तेनाश्विनीनक्षत्रे तैः षड्भिर्नृपतिभिनन्दन्दिमित्रादिभिर्नागवंशकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्रव्राजितवानिति।
एते च सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह
मू. (६६५) सत्तविहे दंसणे पं०, तं०-सम्मइंसणे मिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे. अचक्खुदंसणे ओहिदसणे केवलदसणे।
वृ. 'दंसणे'त्यादि सुगमं, परंसम्यग्दर्शन-सम्यकत्वं मिथ्यादर्शनं-मिथ्यात्वंसम्यग्मिथ्यादर्शनंमिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावंचेति, चक्षुर्दर्शनादितुदर्शनावरणीयभेदचतुष्टयस्य यथासम्भवंक्षयोपशम-क्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति।अनन्तरं केवलदर्शनमुक्तं, तच्च छद्भस्थावस्थाया अनन्तरं भवतीति छद्भस्थप्रतिबद्धं सूत्रद्वयं, विपर्यसूत्रंच।।
मू. (६६६) छउमत्थवीयरागे णं मोहणिज्जवजाओ सत्त कम्मपयडीओ वेयेति, तंजहानाणावरणिज्जं दंसणावरणिज्जं वेयणियं आउयं नामंगोतमंतरातितं ।
वृ.'छउमत्थे'त्यादि सुगम, नवरंछद्भनि-आवरणद्वयरूपेअन्तराये च कर्मणि तिष्ठतीति छद्भस्थः-अनुत्पन्नकेवलज्ञानदर्शनः स चासौ वीतरागश्च-उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः।
मू. (६६७) सत्त ठाणाइंछउमत्थे सव्वभावेणं न याणति न पासति, तं०-धम्मत्थिकार्य अधम्मत्थिकायं आगासस्थिकायं जीवं असरीपडिबद्धं परमाणुपोग्गलं सदं गंधं, एयाणि चेव उप्पन्ननाणे जाव जाणति पासति, तं०-धम्मत्थिगातंजाव गंधं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org