________________
४३२
स्थानाङ्ग सूत्रम् ७/-/६५२ मू. (६५२)जंबुद्दीवे २ भारहे वासे आगामिस्साए उस्सप्पिणीए सत्त कुलकराभविस्संतिमू. (६५३) मित्तवाहण सुभोमे य, सुप्पभे य सयंपभे।
दत्ते सुहुमे सुबंधू य, आगमेस्सिण होक्खती॥ वृ. नवरं 'आगमिस्सेण होक्खइ'त्ति आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः । मू. (६५४) विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताते हव्वमागच्छिंसु।
वृ.तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इतिपूर्वदशविधाअभूवन् ‘रुक्ख'त्ति कल्पवृक्षाः ‘उवभोगत्ताए'त्तिउपभोग्यतया 'हव्वं' शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्यर्थः । मू. (६५५) मत्तंगतात भिंगा चित्तंगा चेव होति चित्तरसा।
मणियंगा त अनियणा सत्तमगा कप्परुक्खा य॥ वृ. 'मत्तंगयाय'गाहा, 'मत्तंगया' इतिमत्तं-मदस्तस्य कारणत्वानमद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूताः-कारणभूतास्तदेववाऽङ्ग अवयवो येषांते मत्ताङ्गकाः, सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, 'भिंग'त्ति संज्ञाशब्दत्वाद् भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, 'चित्तंग'त्ति चित्रस्य-अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, 'चित्तरसत्तिचित्रा-विचित्रारसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'मणियंग'त्ति मणीनां-आभरणभूतानामङ्गभूताः-कारणभूताः मणयो वाअङ्गानि-अवयवा येषांतेमण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'अनियण'त्ति अनग्नकारकत्वादनग्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तप्रधाना वृक्षाः कल्पवृक्षा इति।
मू. (६५६) सत्तविधा दंडनीती पं० २०-हकारे मक्कारे धिक्कारे परिभासे मंडलबंधे चारते छविच्छेदे।
वृ. 'दंडनीइ'त्ति दण्डनं दण्ड:-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिःनयोदण्डनीतिः, 'हक्कारे'त्तिहइत्यधिक्षेपार्थस्तस्य करणं हक्कारः,अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्र, तेनैवासौ हतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारः, तृतीयचतुर्थकुलकरकाले महत्यपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति, आह च॥१॥ “पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया।
पंचमछट्ठस्स य सत्तमस्स तइया अभिनवा उ ।।" इति, तथा परिभाषणं परिभाषा-अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धो' मण्डल-इङ्गितं क्षेत्रंतत्रबन्धो-नास्मात्प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, चारकं गुप्तिगृहं छविच्छेदो' हस्तपादनासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org