SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ स्थानं -७, ४२५ नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, यदभ्यधायि॥१॥ “वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः। पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ।।" तथा अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशा धैवतः, यदुक्तम्॥१॥ “अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते ॥" पाठान्तरेण रैवतश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स निषादः, यतोऽभिहितं॥१॥ "निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना। सर्वांश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥" इति, तदेव स्वराः सप्त 'वियाहिय'त्ति व्याख्याताः, ननु कार्यं हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासङ्खयेयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ताः , आह च॥१॥ “कजं करणायत्तं जीहाय सरस्स ता असंखेना। सरसंखमसंखेज्जा करणस्सासंखयत्ताओ॥ ॥२॥ सत्तय सुत्तनिबद्धा कह न विरोहो? तओ गुरू आह । सत्तणुवाई सव्वे वायरगहणंच गेयं वा ।।" इति स्वरान्नमतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमतेमू. (६०६) एएसिणं सत्तण्हं सराणं सत्त सरट्ठाणा पं० (तं०). वृ. 'एएसि ण'मित्यादि, तत्प नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत्स्वरस्योपकारकमिति स्वरस्थानमुच्यते । मू. (६०७) सज्जंतु अग्गजिब्भाते, उरेण रिसभं सरं। कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं॥ वृ. 'सज्ज'मित्यादिश्लोकद्वयं, ब्रूयादिति सर्वत्र क्रिया, षडजंतु प्रथमस्वरमेव अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः तया यद्यपिषड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषुव्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीतिकृत्वातया तमेव ब्रूयादित्यभिहितं, उरो-वक्षस्तेन ऋषभस्वरं, 'कंठुग्गहएण'तिकण्ठश्चासावुग्रहकश्च-उत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतं-उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यम.। मू. (६०८) नासाए पंचमं बूया, दंतोटेण य धेवतं । मुद्धाणेण य नेसातं, सरठाणा वियाहिता ॥ वृ. तथा दन्ताश्च औष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति । मू. (६०९) सत्त सराजीवनिस्सिता पं०,(तं०)वृ. 'जीवनिस्सिय'त्ति जीवाश्रिताः जीवेभ्यो वा निःसृता-निर्गताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy